________________
श्रीविचाररत्नाकरे प्राच्यतटे
॥ चतुर्थस्तरङ्गः॥ विनमत जिनमतमभिमतफलवितरणसततसज्जममितनयम् ।
मुखरपरवादिमण्डलनिष्ठरमुखमूकतामन्त्रम् ॥१॥ अथ क्र मायाताः श्रसमवायाङ्गवचारा लिख्यन्ते
केचिच्चासद्वादिनः श्रीजिनप्रतिमापूजकान् विगायन्ति-अहो एते पूजाधर्मोपदेशेन जलपुष्पादिजन्तुहिंसका इत्यादि । तच्च सकर्णैरपकर्णनीयम् । यत एतादृशं किमपि कायिकं वाचिकं धर्मानुष्ठानं नास्ति, यत्र जीवविाधनाऽभावः । जावं च णं एयइ वेयइ" [ ]इत्यादिवचनात्, तथा च किमपि धर्मानुष्ठानं नानुष्ठेयं स्यात् । विाधना चेयं 'कूपखननन्यायेन प्रतिमापूजनोद्भुतसुकृतप्राग्भारप्लावितेति न दुष्टा, यतो ज्ञानत्रयबन्धुरैरतिचतुरैर्निजरैरपि मृदुशीतलजलदेन रजःशमने पृथिव्यादीनां, महेन्द्रध्वजेन वायोः जलजस्थलजकुसुमवृष्टया वनस्पतेरित्यादिविराधनायाः स्वीकृतत्वात् । यतः श्रीत्रिजगद्गुरोः सहजातिशयाश्चत्वारः, एकादश च कैवल्योद्भुताः, एकोनविंशतिश्च सुरकृताः, सर्वे चतुस्त्रिंशत् सिद्धान्ते उक्ताः तथाहि
१'चोत्तीसं बुद्धाइसेसा पन्नत्ता । तं जहा-अवट्ठिए केसमंसुोमणहे १, निामया निरुवलेवा य गायलट्ठी २, गोखीरपंडुरे मंससोणिए, ३, पउमुप्पलगंधिए उस्सासणिस्सासे ४, पच्छन्ने आहारनीहारे अदिस्से मंसचक्खुणा ५, आगासगयं चक्कं ६, आगासगयं छत्तं ७, आगासगयाओ सेतवरचामराओ ८, आगासफालियामयं सपायपीठं सीहासणं ९, आगासगओ कुडभीसहसपरिमंडियाभिरामो इंदज्झओ पुरओ गच्छइ १०, जत्थ जत्थ वि य णं अरहंता भगवंता चिटुंति वा णिसीयंति वा तत्थ तत्थ वि य णं तक्खणा चेव संछन्नपत्तपुप्फपल्लवसमाउलो
१. सम. ३४/११० सू.।