SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे प्राच्यतटे तृतीयस्तरङ्गः] [५९ तत्तत्सहकारिकारणसंनिधानेन तत्तद्रुपमभिव्यज्यत इति सत्यता । 'व्यवहार'त्ति व्यवहारेण सत्यं व्यवहारसत्यम्, यथा दह्यते गिरिर्गलति भाजनम्, अयं च गिरिगततृणादिदाहे व्यवहारः प्रवर्त्तते, उदके च गलति सतीति । 'भाव'त्ति भावं-भूयिष्ठशुक्लादिपर्यायमाश्रित्य सत्यंभावसत्यम्, यथा शुक्ला बलाकेति, सत्यपि हि पञ्चवर्णसंभवे शुक्लवर्णोत्कटत्वात् शुक्लेति । 'जोगे'त्ति योगतः-संबन्धतः सत्यंयोगसत्यं ,यथा दण्डयोगाद्दण्डश्छत्रयोगाच्छत्र एवोच्यते । दशममौपम्यसत्यमिति उपमैवौपम्यं तेन सत्मौपम्यसत्यम्, यथा समुद्रवत्तडागं, देवोऽयं, सिंहस्त्वमिति । सर्वत्रैकार: प्रथमैकवचनार्थो दृष्टव्यः। इति स्थानाङ्गदशमस्थानके ४४० प्रतौ ४०४ पत्रे ॥१८॥ दानस्वरूपजिज्ञासया किञ्चिल्लिख्यतेदसविहे दाणे पन्नत्ते । तं जहा अणुकंपा १ संगहे २ चेव, भये ३ कालुणिएइ य ४। लज्जाए ५ गारवेणं च ६, अधम्मे ७ उण सत्तमे ॥१॥ धम्मे ८ य अट्ठमे वुत्ते, काहीइ ९ य कयंति १० य । स्था/१०-९५२] वृत्तिर्यथा-दानस्य भेदानामनुयोगमाह-'दस' इत्यादिः, अणुकम्पेत्यादिश्लोकः सार्द्धः, 'अणुकंप' इति दानशब्दसंबन्धादनुकम्पया-कृपया दानं दीनानाथविषयानुकम्पादानमावा अनुकम्पातो यद्दानं तदा म्फो पचरा त। उक्तं च वाचकमुख्कैमास्वातिपूज्यपादैः "कृपणेऽनाथदरिद्रे, व्यसनप्राप्ते च रोगशोकहते । यद्दीयते कृपार्थदनुकम्पा तद्भवेद्दानम्" ॥१॥ इति १।। सङ्गहणं रह ग्रहो-व्यसनादौ सहायकरणं, तदर्थं दानंस्डग्रहदानम्, अथवा अभेदादानमपिस्डर हउच्यते । आह च "अभ्युदये व्यसने वा, यत्किञ्चिद्दीयते सहायार्थम् । तत्स्ङग्रहतोऽभिमतं, मुनिभिर्दानं न मोक्षाय" ॥१॥इति २। तथा भयाद्यद्दानं द्यदानम्, भयनिमित्ताद्वा दानमपिभायमपुचरादिति । उक्तं च राजारक्षपुरोहितमधुमुखमावल्लदण्डपाशिषु च । यद्दीयते भयार्थं तद्भयदानं बुधैर्जेयम् ॥१॥[ ]इति ।३ 'कालुणिएइ य'त्ति कारुण्यं-शोकस्तेन पुत्रवियोगादिजनितेन तदीयस्यैव तल्पादेः स १. स्था. १०/९५१ सू.। D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy