________________
५८]
[श्रीविचाररत्नाकरः ननु धर्मपुण्ययोः कः प्रतिविशेष ? उच्यते-धर्मः श्रुतचारित्रादिः पुण्यं तत्फलभूतं शुभं कर्म । अयमेवभगवतवृत्तावभिप्रायस्तथाऽत्रापि
वविहे पुन्ने पन्नत्ते । तं जहा-अन्नपुन्ने १ पाणपुन्ने २ वत्थपुन्ने ३ लेणपुन्ने ४ सयणपुन्ने ५ मणपुन्ने ६ वतिपुन्ने ७ कायपुन्ने ८ नमोक्कारपुन्ने ९।इतिा वृत्तिर्यथा-'पुन्ने'त्यादि, पात्रायान्नदानाद्यस्तीर्थङ्करनामादिपुण्यप्रकृतिबन्धस्तदन्नपुण्यमेवं सर्वत्र । नवरं 'लेण'त्ति लयनं-गृहम्, शयनं-संस्तारकः, मनसा गुणिषु तोषात्, वाचा प्रशंसनात्, कायेन पर्युपासनात्, नमस्कराच्च, यत्पुण्यं तन्मनःपुण्यादीनि । उक्तं च
"अन्नं १ पानं २ च वस्त्रं ३ च, आलयः ४ शयना ५ सनम् ६ ।
शुश्रूषा ७ वन्दनं ८ तुष्टिः ९, पुण्यं नवविधं स्मृतम्' ॥१॥ इति । इति स्थानाङ्गनवमस्थानके ४४० प्रतौ ३३७ पत्रे ॥१७॥
दुर्लभबोधिनः प्रतिमापलापिनः केचन स्थापनां नाङ्गीकुर्वते, तच्च तेषां भूताविष्टहसितप्रायं, सिद्धान्ते स्थापनायाः सत्यत्वेनोक्तत्वात । स चायम
दसविहे सच्चे पन्नत्ते । तं जहा"जणवय १ संमय २ ठवणा ३, नामे ४ रूवे ५ पडुच्चसच्चे य ६ । ववहार ७ भाव ८ जोगे ९, दसमे ओवम्मसच्चे य १०" ॥१॥[स्था.१०/९३८]
वृत्तिर्यथा-'जणवय'त्ति सत्यशब्दः प्रत्येमभिसंबन्धनीयः ततश्च जनपदेषु-देशेषु यद्यदर्थवाचकतया रूढं देशान्तरेऽपि तत्तदर्थवाचकतया प्रयुज्यमानं सत्यं-अवितथमिति जनपदसत्यम्, यथा कोङ्कणादिषु पयः पिच्चं नीरमुदकमित्यादि, सत्यत्वं चास्यादुष्टविवक्षाहेतुत्वान्नानाजनपदेष्विष्टार्थप्रतिपत्तिजनकत्वव्यवहारप्रवृत्तेरेवं शेषेष्वपि भावना कार्येति । 'संमय'त्ति संमतं च तत्सत्यं चेतिसंमतसत्यम्, तथाहि-कुमुदकुवलयोत्पलतामरसानां समाने पङ्कसंभवे गोपालादीनामपि संमतमरविन्दमेव पङ्कजमिति, अतस्तत्र संमततया पङ्कजशब्दः सत्यः, कुवलयादावसत्योऽसंमतत्वादिति । 'ठवण' त्ति स्थाप्यते इति स्थापना-यल्लेप्यकर्माल्दादिविकल्पेन स्थाप्यते तद्विषये सत्यंस्थापनासत्यम्, यथाऽजिनोऽपि जिनोऽयमनाचार्योऽप्याचार्योऽयमिति । 'नामे'त्ति नाम-अभिधानं तत्सत्यं नामसत्यम्, यथा कुलमवर्द्धयन्नपि कुलवर्द्धन उच्यते एवं धनवर्द्धन इति । 'रूवे'त्तिरूपापेक्षया सत्यम्प सत्यं,यथा प्रपञ्चयतिः प्रव्रजितरूपं धारयन् प्रव्रजित उच्यते, न चासत्यताऽस्येति । 'पडुच्चसच्चे' त्ति प्रतीत्य-आश्रित्य वस्त्वन्तरं सत्यम्प्रतीत्यसत्य यथा अनामिकाया दीर्घत्वं हृस्वत्वं चेति । तथाहि-तस्यानन्तपरिणामस्य द्रव्यस्य
१. स्था. ९/६७६ सू. ।
D:\ratan.pm5\5th proof