________________
५६]
[श्रीविचाररत्नाकरः तत्रागम्यन्ते-परिच्छिद्यन्ते अर्था अनेनेत्यागमः केवलमनःपर्यायावधिपूर्वचतुर्दशकदशकनवकरूपः १ शेषं श्रुतमाचारप्रकल्पादि श्रुतम् २ नवादिपूर्वाणां श्रुतत्वेऽप्यतीन्द्रियार्थज्ञानहेतुत्वेन सातिशयत्वादागमव्यपदेशः केवलवदिति । यदगीतार्थस्य पुरतो गूढार्थपदैर्देशान्तरस्थगीतार्थनिवेदनायातिचारालोचनमितरस्यापि तथैव शुद्धिदानं साऽऽज्ञा ३ गीतार्थसंविग्नेन द्रव्याद्यपेक्षया यत्रापराधे यथा या विशुद्धिः कृता तामवधार्य यदन्यस्तत्रैव तथैव तामेव प्रयुक्ते सा धारणा। वैयावृत्त्यकरादेर्वा गच्छोपग्रहकारिणोऽशेषस्यानुचितस्योचितप्रायश्चित्तपदानां प्रदर्शितानां धारणं धारणेति।४। तथा द्रव्यक्षेत्रकालभावपुरुषप्रतिषेवानुवृत्त्या संहननधृत्यादिपरिहाणिमवेक्ष्य यत्प्रायश्चित्तदानम् यो वा यत्र गच्छे सूत्रातिरिक्त: कारणतः प्रायश्चित्तव्यवहारः प्रवर्तितो बहुभिरन्यैश्चानुवर्तितस्तज्जीतमिति।५। अत्र गाथा:
"आगमसुयववहारो, मुणह जहा धीरपुरिसपन्नत्तो।। पच्चक्खो य, परोक्खो सो वि अ दुविहो मुणेयव्वो ॥१॥[स्था./५/२-४५९७] पच्चक्खो वि य दुविहो, इंदियजो चेव नो य इंदियओ। इंदियपच्चक्खो वि य, पंचसु विसएसु नेयव्वो ॥२॥[ स्था./५/२-४५९व.] नोइंदियपच्चक्खो, ववहारो सो समासओ तिविहो ।
ओहिमणपज्जवे या, केवलनाणे य पच्चक्खो ॥३॥[स्था./५/२-४५९व.] पच्चक्खागमसरिसो, होइ परोक्खो वि आगमो जस्स । चंदमुही व उ सो वि हु, आगमववहारवं होइ ॥४॥[स्था./५/२-४५९७]] परोक्खं ववहारं, आगमओ सुयहरा ववहरंति । चोद्दसदसपुव्वधरा, नवपुव्विगगंधहत्थी य ।५।। [स्था./५/२-४५९७.] जं जह मोल्लं रयणं, तं जाणइ रयणवाणिओ निउणं । इय जाणइ पच्चक्खी, जो सुज्झइ जेण दिन्नेणं ॥६॥[स्था./५/२-४५९व.] कप्पस्स य निज्जुत्तिं, ववहारस्सेव परमनिउणस्स । जो अत्थओ वियाणइ सो ववहारी अणुन्नाओ ॥७॥[स्था./५/२-४५९व.] तं चेवअणुसज्जंते, ववहारविहिं पउंजइ जहुत्तं । एसो सुअववहारो, पन्नत्तो वीयरागेहिं ।८।।[स्था./५/२-४५९७] अपरक्कमो तवस्सी, गंतुं जो सोहिकारगसमीवे । न चएई आगंतुं, सो सोहिकरो वि देसाओ ॥९॥[स्था./५/२-४५९७]
१. [एते गन्धहस्तिसमाः] । २. अनुसरन् ।
D:\ratan.pm5\5th proof