________________
श्रीविचाररत्नाकरे प्राच्यतटे तृतीयस्तरङ्गः]
[५५ चार्यवदित्येकम् । तथा गणविषये रत्नाधिकतया यथाज्येष्ठं कृतिकर्म तथा वैनयिकं विनयं नो-नैव सम्यक् प्रयोक्ता भवति, आचार्यसंपदां साभिमानत्वात् । यत आचार्येणापि प्रतिक्रमणक्षामणादिषूचितानामुचितविनयः कर्त्तव्य एवेति द्वितीयम् । तथाऽसौ यानि श्रुतपर्यवजातानि-यान् श्रुतपर्यायप्रकरानुद्देशकाध्ययनादीन् धारयति हृद्यविस्मरणतस्तानि काले काले यथावसरं नो सम्यगनुप्रवाचयिता-तेषां पाठयिता भवति। 'गणे 'त्ति इह संबध्यते. तेन गणे-गणविषये गणमित्यर्थः । तस्याविनीत्वात् स्वस्य वा सखलम्पटत्वान्मन्दप्रज्ञत्वाद्वेति गणादपक्रामतीति तृतीयम् । तथाऽसौ गणे वर्तमानः 'सगणियाए'त्ति स्वगणसम्बन्धिन्यां 'परगणियाए'त्ति परगणसत्कायां वा निर्ग्रन्थ्यां तथाविधाशुभकर्मवशवत्तितया सकलकल्याणाश्रयसंयमसौधमध्यावहिर्लेश्या-अन्तःकरणं यस्यासौ बहिर्लेश्य आसक्तो भवतीत्यर्थः एवं गणादपक्रामतीति । न चेदमधिकगुणत्वेनास्यासंभाव्यम् यतः पठ्यते
"कम्माइं नृणं घणचिक्कणाई गुरुयाइं वज्जसाराई ।
नाणड्डियं पि पुरिसं, पंथाओ उप्पहं नेंति" ॥१॥स्था./५/२-४७७७] इति चतुर्थम् । तथा मित्रं-ज्ञातिर्गणो वा सुहृत्स्वजनवर्गो वा से-तस्याचार्यादेः कुतोऽपि कारणाद् गणादपक मेत्, अतस्तेषां सुहृत्स्वजनानां संग्रहाद्यर्थं गणादपक्रामणं प्रज्ञप्तम् । तत्र संग्रहस्तेषां स्वीकार उपग्रहो वस्त्रादिभिरुपष्टम्भ इति पञ्चमम् ।इति स्थानाङ्गपञ्चमस्थानकद्वितीयोद्देशके ४४० प्रतौ २७२( ? ) पत्रे ॥१५॥
__ केचिच्च वयं सिद्धान्तोक्तमेव स्वीकुर्म इत्यादि वृथा प्रलपन्तः परम्पाचरणाद्यपलपन्ति. तच्चाज्ञानविलसितम । यतः शास्त्रे मनीनां प्रायश्चित्तदानाधिकारे आगमताज्ञाधारणाजीतानां पञ्चानामपि व्यवहारत्वेनोक्तत्वात् । तच्चेदम्
पंचविहे ववहारेपण्णत्ते।तजंहा-आगमे सुए आणाधारणा जीए।जहा से तत्थआगमे सिया,तत्थआगमेणंववहारंपट्ठवेज्जा १।नो सेतत्थआगमे सिया,जहा से तत्थ सुते सिया,सुतेणं ववहारंपट्ठवेज्जा २।नो से तत्थ सुते सिया, एवं जाव जहा से तत्थ जीए सिया,जीएणं ववहारंपट्ठवेज्जा ३।इच्चेतेहिंपंचहिंववहारंपट्ठवेज्जा तंजहा-"आगमेणं जावजीएणं,जहा जहा से तत्थ आगमे जाव जीए तहा तहा ववहारं पट्ठवेज्जा''इति वृत्तिर्यथा-'पंचविहे' इत्यादि । व्यवहारणं व्यवहारः, व्यवझोमुमुक्षुप्रवृत्तिनिवृत्तिरूपः, इह तु तन्निबन्धनत्वाद् ज्ञानविशेषोऽपि व्यवहारः।
१. स्था. ९/८३२ सू. ।
D:\ratan.pm5\5th proof