________________
५४]
[ श्रीविचाररत्नाकरः
तथा सहाधिकरणेन साधिकरणा युद्धार्थमुपस्थिता तां वा । सह प्रायश्चित्तेन सप्रायश्चित्ता ताम् । भावना चेह
“अहिगरणंमि कयंमि उ, खामेत्तुमुवट्टियाए पच्छित्तं ।
तप्पढमया भएणं, होइ किलंता व वहमाणी" ॥१॥ [ बृ.भा. / ६२७९] तथा भक्तपाने आभवं प्रत्याख्याते यया सा भक्तपानप्रत्याख्याता, तां वा । इह गाथा - 'अट्ठ वा हेडं वा, समणीणं विरहए कर्हितस्स ।
मुच्छा विवडिया, कप्पड़ गहणं परिण्णाए" ॥१॥[ बृ.भा./६२८२ ] तथा अर्थः-कार्यमुत्प्रव्राजनतः स्वकीयपरिणेत्रादेर्जातं यया सा अर्थजाता, पतिचदिना संयमाच्चाल्यमानेत्यर्थः तां वा । इह गाथा -
अत्थो ति जीए कज्जं, संजायं एस अत्थजायो उ ।
"
तं पुण संजमभावा, चालिज्जंति समवलंबं ” ॥१॥[ बृ.भा./६२८६ ]त्ति । इति स्थानाङ्गपञ्चमस्थानकद्वितीयोदेशके ४४० प्रतौ २७१ ( ? ) पत्रे ॥१४॥
केदिदशास्त्रज्ञाः प्रतिपादयन्ति, यथा यादृशास्तादृशो भवतु परं तीर्थङ्कासनोपविष्टत्वात्तीर्थङ्करतुल्यत्वाच्चाचार्यो न त्याज्यः । असत्प्ररूपणे तु तस्य संसारवृद्धिः, किमन्येषामित्यादि । तच्च कुमतिविजृम्भितं, कैश्चित् कारणाचार्योपाध्यायस्यापि गणापक्रमणं भवतीत्युक्तत्वात् । तच्चेदम्—
९' पंचहिं ठाणेहिं आयरियउवज्झायस्स गणावक्कमणे पण्णत्ते । तंजहाआयरियउवज्झाए गणंसि आणं वा धारणं वा नो सम्मं पउंजित्ता भवइ १ । आयरियउवज्झाए गणंसि अहारयणियाए किइकम्मं वेणइयं णो सम्मं क जित्ता भवइ २। आयरियउवज्झाए गणंसि जे सुअपज्जवजाए धारिंति ते काले काले नो सम्ममणुप्पवात्ता भवइ ३ | आयरियउवज्झाए गणंसि सगणियाए वा परगणियाए वा निग्गंथी बाहिसे भवइ ४ । मित्तणाइगणे वा से गणाओ अवक्कमेज्जा तेसिं संगहोवग्गहट्टायाए गणावक्कमणे पन्नत्ते "इति । वृत्तिर्यथा - 'पंचहिं' इत्यादि सुगमम् । नवरं आचार्योपाध्यायस्य आचार्योपाध्यायार्योर्वा गणात् गच्छादपक्रमणं - निर्गमो गणापक्रमणम् । आचार्योपाध्याययोर्गणे गच्छविषये आज्ञां वा योगेषु प्रवर्त्तनलक्षणां धारणां वा धेयेषु प्रवर्त्तनलक्षणां नो - नैव सम्यग् यथौचित्यं प्रयोक्ता तयोः प्रवर्त्तनशीलो भवति, इदमुक्तं भवति-दुर्विनीतत्वाद् गणस्य ते प्रयोक्तुमशक्नुवन् गणादपक्रामति,कालिका
१. स्था. ५/२-४७७ सू. ।
D:\ratan.pm5\5th proof