________________
श्रीविचाररत्नाकरे प्राच्यतटे तृतीयस्तरङ्गः ]
गृह्णन्नातिक्रामतीति द्वितीयम् ।
तथा पङ्कः पनको वा सजलो यत्र निमज्जते स सेकस्तत्र वा, पङ्कः कर्दमस्तत्र वा, पनके वा आगन्तुकप्रतनुद्रवरूवे कर्दम एव वा अपकसन्तीं पङ्कपनकयोः परिहसन्तीं अपोह्यमानां सेके पनके वा नीयमानां गृण्हन्नातिक्रामतीति । गाथा चेह
"पंको खलु चिक्खिल्लो, आगंतुं पतणुओ दवो पणओ ।
सो च्चिय सजलो सेओ, सिइज्जइ जत्थ दुविहे वि ॥ १ ॥ बृ.भा. / ६१८८ त्ति । पंकपणएसु नियमा, उवकसणंवुज्झणं सिया सेए ।
निग्गंमि निमज्जणा य, सजले सेए सिया दो वि" ॥२॥ [ बृ.भा./६१८९ ]त्ति ।
इति तृतीयम् ।
[ ५३
तथा—‘नावमारुहमाणे’त्ति आरोहयन् 'ओरुहमाणे 'त्ति अवरोहयन्नुत्तारयन्नित्यर्थो नातिक्रामतीति चतुर्थम् ।
तथा—क्षिप्तं-नष्टंागभयापमानैश्चित्तं यस्याः सा क्षिप्तचित्ता तां वा । उक्तं च“रागेण वा भयेणवा,अहवा अवमाझ्या महंतेहिं । एतेहिंखित्तचित्ता' [ बृ.भा./६१९५ तथा दृप्तं—सन्मानाद्दर्पवच्चित्तं यस्याः सा दृप्तचित्ता तां वा । उक्तं च' इति एस असंमाणा, खित्तो संमाणओ भवे दित्तो ।
अग्गी व इंधणेणं, दिप्पइ चित्तं इमेहिं तु ॥ १ ॥ [ बृ.भा. / ६२४२ ]
लाभमएण व मत्तो, अहवा जेऊण दुज्जयं सत्तुं"। [ बृ.भा. / ६२४३पू. ]ति । यक्षेण-देवेन आविष्टा- अधिष्ठिता यक्षाविष्टा तां वा । अत्रोक्तम्
“पुव्वभववेरिएणं, अहवारा गेारागिया संती । एतेहिं जक्खइट्ठा' [ बृ.भा./ ६२५८ ]त्ति । उन्मादं उन्मत्ततां प्राप्ता उन्मादप्राप्ता तां वा अत्राप्युक्तम्“उम्माओ खलु दुविहो, जक्खाएसो य मोहणिज्जो य ।
जखाएसो वत्तो, मोहेण इमं तु वोच्छामि ॥१॥ [ बृ.भा. / ६२६३ ] रूवंगं दट्ठूणं, उम्माओ अहव पित्तमुच्छाए" [ बृ.भा./६२६४ ]त्ति । उपसर्गं-उपद्रवं प्राप्ता उपसर्गप्राप्ता तां वा इहाप्युक्तम्
“तिविहे खलु उवस्सग्गे, दिव्वे माणुस्सए तिरिक्खे य ।
दिव्वे य पुव्वभणिए, माणुस्से आभिओगे य ॥ १ ॥ [ बृ.भा./६२६९ ] विज्जाएमंतेणय,चुण्णेणवजोइयाअणप्पवसा''[ बृ.भा./६२७०पू. ]त्ति ।
१. वुब्भणं प्रत्य. । २. निमियंमि प्रत्य. ।
D:\ratan.pm5\5th proof