________________
४६]
[श्रीविचाररत्नाकरः देवलोएसु दिव्वेसु कामभोएसु मुच्छिए ४ तस्स णं एवं भवइ-एयण्णं (इयाण्हि) गच्छं मुहुत्तेणं गच्छं तेणं कालेणं अप्पड़आ मणुस्सा कालधम्मुणा संपन्ना भवंति ३। अहुणोववण्णे देवे देवलोएसु दिव्वेसु कामभोएसु मुच्छिए ४ तस्स णं माणुस्से गंधे पडिकूले पडिलोमे यावि भवइ । उ8 पि य णं माणुस्सए गंधे चत्तारि पंच जोयणसयाइं हव्वमागच्छइ इच्चेतेहिं चउहि ठाणेहिं अहुणोववन्ने देवे देवलोएसु इच्छेज्जा माणुस्सलोगं हव्वमागच्छित्तए नो चेव णं संचाएइ हव्वमागच्छित्तए ४।" इति वृत्तिर्यथा-'चउहि ठाणेहिं नो संचाएइ'त्ति सम्बधस्तथा देवलोकेषु-देवमध्ये इत्यर्थः । 'हव्वं' शीघ्रं 'संचाएइ'त्ति शक्नोति कामभोगेषुमनोज्ञशब्दादिषु मूच्छित इव मूच्छितो-मूढस्तत्स्वरूपस्यानित्यत्वादेविबोधाक्षमत्वात्, गृद्धस्तदाकङ क्षावान् अतृप्त इत्यर्थः, ग्रथित इव ग्रथितस्तद्विषयस्नेहरज्जुभिः सन्दर्भित इत्यर्थः, अध्युपपन्नोऽत्यन्तं तन्मना इत्यर्थः नाद्रियते-न तेष्वादरवान् भवति, न परिजानाति-एतेऽपि वस्तूभूता इत्येवं न मन्यते, तथा तेष्विति गम्यते नो अर्थं बध्नातिएतैरिदं प्रयोजनमिति निश्चयं कोति, तथा नो तेषु निधानं प्रकरोति-एते मे भूयासुरित्येवमिति, तथा नो तेषु स्थितिविकल्पम्-अवस्थानविकल्पनम् एतेष्वहं तिष्ठामि एते वा मम तिष्ठन्तु-स्थिरा भवन्तु इत्येवंरूपम्, स्थित्या वा-मर्यादया प्रकृष्टः कल्पआचार: स्थितिप्रकल्पस्तं प्रकरोति-कर्तुमारभते, प्रशब्दस्यादिकर्मार्थत्वादिति । एवं दिव्यविषयप्रसक्तिरेकं कारणम् । तथा यतोऽसावधुनोत्पन्नो देवः कामेषु मूच्छितादिविशेषणोऽतस्तस्य मानष्यकमित्यादीति दिव्यप्रेमसंक्रान्तिद्वितीयम् । तथाऽसौ देवो यतो भोगेषु मूच्छितादिविशेषणो भवति ततस्तत्प्रतिबन्धात् 'तस्स णं' इत्यादि देवकार्याऽऽयत्ततया मनुष्यकार्याऽनायत्तत्वं तृतीयम् । तथा दिव्यभोगमूच्छितत्वादिविशेषणत्वात्तस्य मनुष्याणामयं मानुष्यः स एव मानुष्यको गन्धः प्रतिकूलो दिव्यगन्धविपरीतवृत्तिः प्रतिलोमश्चापि इन्द्रियमनसोरनाल्हादकत्वादेकार्थौ चैतावत्यन्तामनोज्ञताप्रतिपादनायोक्ताविति यावत्, इति परिमाणार्थः । 'चत्तारि पंच' इति विकल्पदर्शनार्थं कदाचिद्ररतदिष्वेकान्तसुषमादौ चत्वार्येव अन्यदा तु पञ्चापि मनुष्यपञ्चेन्द्रियतिरश्चां बहुत्वेनौदारिकशरीराणां तदवयवतन्मलानां च बहुत्वेन दुरभिगन्धप्राचुर्यादिति । आगच्छति मनुष्यक्षेत्रादाजिगमिषु देवं प्रतीति । इदं च मनुष्यक्षेत्रस्याशुभस्वरूपत्वमेवोक्तम् । न च देवोऽन्यो वा नवभ्यो योजनेभ्यः परत आगतं गन्धं जानातीति अथवा अत एव वचनात् । यदिन्द्रियविषयप्रमाणमुक्तं तदौदारिकशरीन्द्रियापेक्षयैव संभाव्यते
D:\ratan.pm5\5th proof