________________
श्रीविचाररत्नाकरे प्राच्यतटे तृतीयस्तरङ्गः ]
अल्पतरप्रेमत्वात्तत्वविचारादौ निष्ठुरवचनादप्रीतेः तथाविधप्रयोजनेष्वत्यन्तवत्सलत्वाच्चेति। मित्रसमानः सोपचारवचनादिना विना प्रीतिक्षतेः, तत्क्षतो चापद्यप्युपेक्षकत्वादिति । समानः-साधारणः पतिरस्याः सा सपत्नी यथा सा सपत्न्या ईर्ष्यावशादपराधान् वीक्षते एवं यः साधुषु दूषणदर्शनतत्परोऽनुपकारी च ससपत्नीसमानोऽभिधीयते इति । ‘अद्दाग' त्तिआदर्शसमानो यो हि साधुभिः प्रज्ञाप्यमानानुत्सर्गापवादादीनागमिकान् भावान् यथावत् प्रतिपद्यते संनिहितार्थानादर्शकवत् स आदर्शसमानः। यस्यानवस्थितो बोधो विचित्रदेशनावायुना सर्वतोऽपह्रियमानत्वात् पताकेव स पताकासमानः। यस्तु कुतोऽपि कदाग्रहान्न गीतार्थदेशनया चाल्यते सोऽनमन स्वभावबोधत्वेनाप्रज्ञापनीयः स्थाणुसमानइति । यस्तु प्रज्ञाप्यमानो न केवलं स्वाग्रहान्न चलति अपि तु प्रज्ञापकं दुर्वचनकण्टकैर्विध्यति सखरकण्टकसमानः । खरा - निरन्तरा निष्ठुरा वा कण्टका यस्मिंस्तत्खरकण्टकं बब्बूलादिडालम् खरणमिति लोको यदुच्यते तच्च विलग्रं चीवरं न केवलमविनाशितं न मुञ्चति अपि तु तद्विमोचकपुरुषादिकं हस्तादिषु कण्टकैर्विध्यति । अथवा खरण्टयति लेपवन्तं करोति यत्तत्खरण्टमशुच्यादि तत्समानः, . यो हि कुबोधापनयनप्रवृत्तं संसर्गमात्रादेव दूषणवन्तं करोति । कुबोधकुशीलतादुष्प्रसिद्धिजनकत्वेनोत्सूत्रप्ररूपकोऽयमित्यसद्दूषणोद्भावकत्वेन वेति इति श्रीस्थानाङ्गचतुर्थे स्थानके तृतीयोद्देशके ४४० प्रतौ २०५ पत्रे ॥९॥
ननु निरर्थकं धर्माचरणं, फलवन्ध्यत्वात्, यद्येतस्याशेषस्य यथोक्तफलाव्यभिचारः स्यात्तदा भूयांसोऽप्यनशनादिसदनुष्ठानेन विपन्नाः कथं स्वेन्द्रत्वादिविभवं न दर्शयन्ति ?, मैवं, तदनागमने हेतुचतुष्टयस्य शास्त्रे प्रतिपादितत्वात् । पूर्वकाले तत्कारणसद्भावे कथमागतास्ते श्रूयन्ते इति चेत्तत्र पुण्यप्राबल्यं कारणमिति, सर्वं सुस्थं, देवानागमनहेतुप्रतिपादकं शास्त्रं चेदम्
[ ४५
१' च्छहिं ठाणेहिं अहुणोववन्ने देवे देवलोएस इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तए नो चेव णं संचाएइ हव्वमागच्छित्तए । तंजहा - अहुणोववन्ने देवे देवलोएसु दिव्वेसु कामभोएसु मुच्छिए गिद्धे गढिए अज्झोववन्ने से णं माणुस्से कामभोए नो आढाइ नो परियाणाइ नो अट्ठे बंधइ नो नियाणं पकरेइ नो ठिइप्पकप्पं करेइ १ । अहुणोववन्ने देवे देवलोएसु दिव्वेसु कामभोएसु मुच्छिए तस्स णं माणुस्से पेम्मे वोच्छिण्णे दिव्वे संकते भवइ २। अहुणोववन्ने देवे
१. स्था. ४ / ३-३४५ सू. ।
D:\ratan.pm5\5th proof