________________
४४]
[श्रीविचाररत्नाकरः १"इहरह वि नाणथब्भइवत्तणुइ, अविणीओ लंभिओ किम् सुएणं? ।
मा णट्ठो नासिहिई खए व खारोवसेगो उ॥१॥[स्था.३/४/२१७व.] गोजूहस्स पडागा, सयं पलायस्स वड्डई वेगं ।
दोसोदए य समणं, न होइ न नियाणतुल्लं व ?''।।२।।[ स्था.३/४/२१७७] निदानतुल्यमेव भवतीत्यर्थः । "विणयाहीया विज्जा, देइ फलं इह परे य लोगंमि ।
न फलइ अविणयगहिआ, सस्साणि व तोअहीणाई" ॥१॥ [ स्था.३/४/२१७व.] तथा विकृतिप्रतिबद्धो-घृतादिरसविशेषगृद्धोऽनुपधानकारीति भावः । इहापि दोष एव यदाह"अतवो न होइ जोगो, न य फलए इच्छियफलं विज्जा ।
अवि फलति विउलमगुणं, साहणहीणा जहा विज्जा"॥१॥[स्था.३/४/२१७व.]त्तिा अव्यवसितम्-अनुपशान्तं प्राभृतमिव प्राभृतं नरकपालकौशलिकः परमक्रोधो यस्य सोऽव्यवसितप्राभृतः । उक्तं च"अप्पे वि पारमाणिं, अवराहे वयइ खामियं तं च ।
बहुसो उदीरयंतो, अविउसियपाहुडो स खलु" ॥१॥[स्था.३/४/२१७७]त्ति पारमाणि-परमक्रोधसमुद्घातं व्रजतीति भावः । एतस्य वाचने इहलोकतस्त्यागोऽस्य प्रेरणायां कलहनात्, प्रान्तदेवताछलनाच्च, परलोकतोऽपि त्यागः, तत्र श्रुतस्य दत्तस्य निष्फलत्वात्, ऊषरक्षिप्तबीजवदिति । आह च- । "दुविहो उ परिच्चाओ इह चोअणकलह-देवयाछलणं ।
परलोगंमि अ अफलं, खित्तं पिव ऊसरे बीयं" ॥१॥[स्था.३/४/२१७] ति इति स्थानाङ्गतृतीयस्थानकचतुर्थोद्देशके।८।।
केचिदेकान्ततोरागिणोऽपरे च छिद्रान्वेषिण इत्यादि श्रावकेष्वपि वैचित्र्यदर्शनान्न व्यामोहो विधेयो, नापि छिद्रान्वेषिष्वश्रावकधीः कर्त्तव्या, चातुर्विध्यस्यागमे उक्तत्वात् । स चायम्
"चत्तारि समणोवासगा पण्णत्ता । तंजहा-अम्मापिइसमाणे भाइसमाणे मित्तसमाणे सवत्तिसमाणे । चत्तारिसमणोवासगा पण्णत्ता, तंजहा-अहागसमाणे पडागसमाणे खाणुसमाणे खरंटयसमाणे''इति । वृत्तिर्यथा-'अम्मापिइसमाणे इति' मातापितृसमान: उपचारं विनापि साधुषु एकान्तेनैव वत्सलत्वात् ।भ्रातृसमानः
१. इहरह वि ताव थब्भइ इति पाठान्तरः । २. स्था. ४/३-३४३ सू. ।
D:\ratan.pm5\5th proof