________________
श्रीविचाररत्नाकरे प्राच्यतटे तृतीयस्तरङ्गः]
[४३ अब्भवद्दलं च णं समुट्ठियं परिणयं वास्ठिकामं वठकाए विधुणाइ ३। इच्चेहिं तिहिं ठाणेहि अप्पवुट्टिकाए सिया"। इति वृत्तिर्यथा-'तिहिं' इत्यादिभिरष्टाभिः सूत्रैराह । सुगमानि चैतानि किं तु 'अप्पवुट्ठिकाए'त्ति अल्पः-स्तोकोऽविद्यमानो वा वर्षणंवृष्टिरध:पतनं वृष्टिप्रधानः कायो-जीवनिकायो व्योमनिपतदप्काय इत्यर्थः, वर्षणधर्मयुक्तं वोदकं वृष्टिः, तस्याः कायो-राशिर्वृष्टिकायः, अल्पश्चासौ वृष्टिकायश्च अल्पवृष्टिकायः स स्याद्भवेत्तस्मिस्तत्रमगधदौ । चशब्दोऽल्पवृष्टिकारणान्तरसमुच्चयार्थः । णमित्यलङ्कारे देशेजनपदे, प्रदेशे तस्यैवैकदेशरूपे, वाशब्दौ विकल्पार्थों, उदकस्य योनय उदकयोनयःपरिणामकारणभूता उदकयोनयः त एवोदकयोनिका उदकजननस्वभावा व्युत्क्रामन्तिउत्पद्यन्ते. व्यपक्रामन्तिच्यवन्ते । एतदेव यथायोगं पर्यायत आचष्टे-च्यवन्ते उत्पद्यन्ते क्षेत्रस्वभावादित्येकम् । तथा देवा वैमानिका ज्योतिष्काः, नागा नागकु मारा भवनपत्युलक्षणमे तत्, यक्षा भूताइति व्यन्ता पलक्षणम् । अथवा देवा इति सामान्यम्, नागादयस्तु विशेषः, एतद्ग्रहणं च प्राय एषामेवंविधे कर्मणि प्रवृत्तिरिति ज्ञापनाय विचित्रत्वाद्वा सूत्रगते:इति । नो सम्यगाराधिता भवन्ति, अविनयकरणाज्जानपदैरिति गम्यते। ततश्च तत्र मगधादौ देशे प्रदेशे वा तस्यैव समुत्थितम्-उत्पन्नं उदकप्रधानं पौद्गलं-पुद्गलसमूहो मेघ इत्यर्थः । उदकपौद्गलं तथा परिणतं उदकदायकावस्थाप्राप्तम् अत एव विद्युदादिकरणाद्वर्षितुकामं सत् अन्यं देशंमगधदिकं संहरन्तिनयन्तीति द्वितीयम् । अभ्राणि-मेघास्तर्वार्दलकं दुर्दिनं अभ्रवादलकं 'वाउआए'त्ति वायुकायः-प्रचण्डवातो विधुनाति-ध्वंसयतीति तृतीयम् । 'इच्चेहिं' इत्यादि निगमनम् । इति स्थानाङ्गतृतीयस्थानकतृतीयोद्देशके ४४० प्रतौ १२६ पत्रे ॥७॥
___ इह केचिदज्ञानिनो भूयोभूयः सयुक्तिभिः सिद्धान्तोक्तिभिः सुविहितगीतार्बोधिता अपि योगापलापाग्रहं न त्यजन्ति, ततस्तान् प्रति 'अश्रान्ताः पोपकारे सन्तः''[ ] इत्यङ्गीकृत्य पुनरपि योगविधिसत्तासूचकं सूत्रं लिख्यते
*'तओ न कप्पंति वाइत्तए (तओ अवायणिज्जा पण्णत्ता ।) तंजहाअविणीए विगइपडिबद्धे अकिसियपाहुडे''इति । वृत्तिर्यथा-'तओ' इत्यादि सुगम नवरं न वाचनीयाः-सूत्रं न पाठनीयाः अत एवार्थमप्यश्रावणीयाः सूत्रादर्थस्य गुरुत्वात्, तत्राविनीतः-सूत्रार्थदातुर्वन्दनादिविनयरहितः, तद्वाचने हि दोषाः यत उक्तम्
१. स्था. ३/४-२१७ सू. ।
D:\ratan.pm5\5th proof