________________
अश्लीलांशवर्जितः भाषा-जिसके सब चरणों में सप्तम और दशम अक्षर हस्व हो और पांचपांच सात-सात अक्षरों पर विश्राम हो वह वैश्वदेवी छन्द कहा गया है ॥ २७ ॥
(२५) तोटकच्छन्दः सतृतीयकषष्ठमुदात्तमते ! नवमं विरतिप्रभवं गुरु चेत् । अधिपिङ्गलशास्त्रमुपात्तरते ! ननु तोटकवृत्तमिदं कथितम् ॥ २८ ॥
अन्वयः-हे उदात्तमते ! सतृतीयकपष्टं नवमं विरतिप्रभवं (च)गुरु (स्यात्) चेत् ननु ( तदा) हे अधिपिङ्गलशास्त्रसुपात्तरते ! इदं तोटकवृत्तं कथितम् ।
व्याख्या-हे उदात्तमते ! हे उज्ज्वलबुद्धे ! सतृतीयकषष्ठं तृतीय-षष्ठातरमहितं नवमं नवमसंख्यकं विरतिप्रभवं द्वादशं च अक्षरं गुरु दीर्घ स्यात् चेत् यदि ननु निश्चयने तदा हे अधिपिङ्गलशास्रमुपात्तरते ! इदम् एनत् तोटकवृत्तं तोटकनामच्छन्दः कथितं प्रतिपादितम् । उदाहरणं यथा
यमुनातटमच्युतबाल्यकला-लसदध्रि परोरुहसनरूचिम् ।
मुदितोऽट कलेरपनेतुमघं यदि चेच्छसि जन्म निजं सफलम् ॥ भाषा-जिसके सब चरणों में तृतीय, षष्ट, नवम और द्वादश अक्षर दीर्घ हों वह नोटकवृत्त कहा गया है ॥ २५ ॥
(२६) भुजङ्गप्रयानच्छन्दः यदाद्यं चतुर्थ तथा सप्तमं चेत्तथैवाक्षरं ह्रस्वमेकादशाद्यम् । दधद्भक्तिमाचार्यपादारविन्दे ! तदुक्तं कवीन्द्रर्भुजङ्गप्रयातम् ।। २६ ।।
अन्वयः-हे आचार्यपादारविन्दे भक्तिं दधद् ! यदा आद्यं चतुर्थ तथा सप्तमं नथैव एकादशाद्यम् अक्षरं हस्वं ( चेत् ) तदा कवीन्द्रः तत् भुजङ्गप्रयातम् उक्तन् ।
व्याख्या हे आचार्यपादारविन्दे गुरुचरणकमले भक्तिं श्रद्धां दधद् बिभ्रत् । यदा आधं प्रथमं चतुर्थ तुरीयं तथा सप्तमं सप्तमसंख्यकं तथैव एकादशाद्यं दशमम् अक्षरं वर्णः ह्रस्वं लधु चेत् , तदा कवीन्द्रैः कविवर्यैः तत् उक्तलक्षणघटितं मुजङ्गप्रयातम् उक्तं कथितम् ।
उदाहरणं यथासदारात्मजज्ञातिभृत्यो विहाय स्वमेतं हृदं जीवनं लिप्समानः । मया क्लेशितः कालियेत्थं कुरु वं भुजङ्ग ! प्रयातं द्रुतं सागराय ॥