________________
श्रुनबोधः .भाषा-जिसमें हर एक चरण के प्रथम, चतुर्थ, सप्तम और दशम अक्षर हुम्ब हों, उसे कवियों ने भुजङ्गप्रयात कहा है ॥ २२ ॥
(२७) द्रुतविलम्बितच्छन्दः अयि वशंवद ! यत्र चतुर्थकं गुरु च सप्तमकं दशमं तथा। विरतिजं च तथैव विचक्षणैद्र्तविलम्बितमित्युपदिश्यते ।। ३०॥
अन्वयः-अयि वशंवद ! यत्र चतुर्थकं सप्तमकं च तथा दशमं तथैव विरतिज च ( अक्षरं गुरु भवति )। विचक्षणः (तत्) दुतविलम्बितम् इति उपदिश्यते ।
व्याख्या-अयि वशंवद ! हे आज्ञावशवर्तिन् ! यत्र यस्मिन् वृत्ते चतुर्थक तुरीयं सप्तमकं च सप्तमं तथा तेन प्रकारेण दशमं दशमसंख्यकतथैव तेनैव प्रकारेण विरतिजं विश्रामप्रभवं च अक्षरं गुरु दीर्घ भवति, विचक्षणैः पण्डितैः तत् प्रसिद्धम् उक्तलक्षणलक्षितं द्रुतविलम्बितं तन्नामकं वृत्तम् इति एतन्नाम्ना उपदिश्यते कथ्यते।
उदाहरणं यथाविपदि धैर्य मथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥
भाषा-जिसके सब चरणों में चतुर्थ, सप्तम, दशम और द्वादश अक्षर गुरु हों वह पण्डितों से द्रुतविलम्बित छन्द कहा गया है ।। ३० ॥
(२८) प्रमिनाक्षराच्छन्दः यदि तोटकस्य गुरु पञ्चमकं विहितं शुभोदय ! तदक्षरकम् । रससङ्खचकं गुरु न चेन्नियतं प्रमिताक्षरेति कविभिः कथिता ।। ३१ ॥
अन्वयः-हे शुभोदय ! यदि तोटकस्य पञ्चमकं ( यद् ) तद् अक्षरकं गुरु विहितं ( तथा ) रससंख्यकं गुरु न चेत् ( नदा सा) कविभिः प्रमिताक्षरा इति नियतं कथिता।
व्याख्या-हे शुभोदय ! यदि यदा तोटकस्य तोटकनामवृत्तस्य पञ्चमकं पञ्चमं (यद्) तद् प्रसिद्धम् अक्षरकं वर्णः गुरु दीर्घ विहितं कृतं तथा रससंख्यक षष्ठमक्षरं गुरु न चेत् न स्यात् , तदा सा वृत्तिः कविभिः काव्यज्ञैः प्रमिताक्षरा इति नियतं निश्चितं कथिता प्रतिपादिता । उदाहरणं यथा
अमृतस्य शीकरमिवोद्विरती रदमौक्तिकांशुलहरीच्छुरिता । प्रमिताक्षरा मुररिपोर्भणितिर्बजसुभ्रुवामभिजहार मनः ॥