SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ श्रुतबोधः (२३) स्वागताछन्दः अक्षरं च न नवमं दशमं चेद् व्यत्ययाद्भवति प्राक्तनवृत्ते । प्रोक्तमुत्तममते ! यदि सैव स्वागतेति कविभिः कथिताऽसौ ।।६।। अन्वयः-हे उत्तममते ! प्राक्तनवृत्ते प्रोक्तं नवमं दशकम् अक्षरं चेद् यदि व्यत्ययाद्भवति, (तदा), सैव अमौ कविभिः न्वागना इति कथिता। व्याख्या- हे उत्तममते ! उत्तमबुद्ध ! प्राक्तनवृत्ते पूर्वोक्तरथोद्धताछन्दसि प्रोक्तं कथितं नवमं नवमसंख्यकं दशमं दशमसंख्यकं च अक्षरं वणः व्यत्ययात् वैपरीस्यात् चेत् यदि भवति जायते, (तदा) सैव रथोद्धतैव असौ एपा कविभिः काव्यज्ञैः स्वागना एतन्नामिका वृत्तिः कथिता प्रतिपादिता ।। उदाहरणं यथा यस्य चेतसि सदा मुरवैरी भक्तिशालिजनपालनलोलः । तस्य नूनममरालयभाजः स्वागतादरकरः सुरराजः ॥ भाषा-जिसमें रथोद्धता के नवम और दशम अक्षर विपरीत हो उसे कवियों ने स्वागता छन्द कहा है। (अर्थात् रथोद्धता में नवम अक्षर गुरु और दशम लघु होता है, इसमें नवम अक्षर लघु और दशम गुरु होगा )॥ २६ ॥ (२४) वैश्वदेवीचन्दः ह्रस्वो वर्णः स्यात्सप्तमो यत्र तद्वच्छन्दोज्ञानाथिन् ! न्यस्त एकादशाद्यः । बाणविश्रामस्तत्र चेद्वा तुरङ्गै ना निर्दिष्टा वत्स ! सा वैश्वदेवी ।। २७ ।। अन्वयः-हे छन्दोज्ञानार्थिन् ! यत्र सप्तमः वर्णः हस्वः स्यात् तद्वत् एकादशाद्यः (हस्वः) न्यस्तः ( तथा) तत्र बाणैः वा तुरङ्गैः विश्रामश्चेत् (तदा) हे वत्स ! सा नाम्ना वैश्वदेवी निर्दिष्टा । व्याख्या-हे छन्दोज्ञानार्थिन् छन्दःशास्त्रजिज्ञासो ! यत्र यस्यां वृत्ती सप्तमः सप्तमसंख्यको वर्णः अक्षरं हस्वो लघुः स्यात् भवेत् , तद्वत् तथैव एकादशाद्यो दशम वर्णः ह्रस्वो न्यस्तः स्थापितः । तत्र तस्मिन् बाणेः पञ्चभिरक्षरैः नुरङ्गैः सप्तभिरक्षरैर्वा विश्रामो विरामो भवेत् ; चेद् यदि तदा हे वत्स ! हे छन्दःशास्त्रवालक ! सा वृत्तिः नाम्ना वैश्वदेवी निर्दिष्टा उक्ता विद्वद्भिरिति शेषः । उदाहरणं यथापद्मव्याकोशं भास्करं बालचन्द्रं वापीविस्तीर्ण स्वस्तिकं पूर्णकुम्भम् । तत्कस्मिन् देशे दर्शयाभ्यात्मशिल्पं दृष्ट्वा श्वो यद्विस्मयं यान्ति पौराः ॥
SR No.009626
Book TitleShrutbodha
Original Sutra AuthorN/A
AuthorKanaklal Thakur, Bramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year1968
Total Pages34
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy