________________
अश्लीलांशवर्जितः
१३
(२१) आख्यानकी छन्दः आख्यानकी स्याद् बुधमार्गयायिन् ! यन्दीन्द्रवज्राचरणः पुरस्तात् । उपेन्द्रवज्राचरणास्त्रयोऽन्ये मनीषिणोक्ता विपरीतपूर्वा ॥२४ ।। __ अन्वयः-हे बुद्धमार्गयायिन् ! यदि पुरस्तात् इन्द्रवज्राचरणः स्यात् अन्ये च त्रयः उपेन्द्रवन्नाचरणाः (स्युः, तदा) मनीषिणा विपरीतपूर्वा आख्यानकी उक्ता ।
व्याख्या-हे बुधमार्गयायिन् ! हे पण्डितपथगामिन् । यदि पुरस्तात् प्रथमम् , इन्द्रवज्राचरणः इन्द्रवज्रापादः, स्यात् भवेत् , भन्ये च अवशिष्टाश्च त्रयः त्रिसंख्यकाः उपेन्द्रवज्राचरणाः उपेन्द्रवज्रासहशपादाः ( स्युः ), तदा मनीषिणा विदुषा विपरीतपूर्वा आख्यानकी तमाम्नी वृत्तिः उक्ता कथिता । उदाहणं यथा
अंशे हिण्यातरिपोः स जाते हिरण्यनामे तनये नयज्ञः ।
द्विषामसाः सुतरां तरूणां हिरण्यरेता इव सानिलोऽभत् ॥ भाषा-जिसमें पहचा चरण इन्द्रवज्रा का हो और तीन पाद उपेन्द्रवज्रा के हों वह आख्यानकी छन्द है ॥ २४ ॥
(२२) रथोद्धताछन्दः आद्यमक्षरमतस्तृतीयकं सप्तमं च नवमं तथाऽन्तिमम् । दीर्घमस्तु ननु यत्र सन्मते! तां वदन्ति कवयो रथोद्धताम् ॥ २५ ।।
अन्वयः-ननु-सन्मते ! यत्र आद्यम् अतः तृतीयकं सप्तमं नवमं तथा अन्तिमं च अक्षरम् दीर्घम् अस्तु कवयः तां रथोद्धतां वदन्ति ।
व्याख्या-ननु सन्मते ! हे प्रशस्तबुद्धे ! यत्र यस्मिन् वृत्ते आद्यं प्रथमम् अतः अस्मात परं तृतीयकं तृतीयं सप्तम सप्तमसंख्यकम् नवमं तथा अन्तिमम् एकादशम् च अक्षरम् दीर्घ गुरु अस्तु भवतु, कवयः काव्यतत्त्वज्ञाः ताम् उक्तलक्षणलक्षितां रथोद्धतामेतन्नामकं वृत्तं वदन्ति कथयन्ति । उदाहरणं यथा
राधिका दधिविलोडनस्थिता कृष्णवेणुनि नदेरथोद्धता ।
यामुनं तटनिकुञ्जमञ्जसा सा जगाम सलिलाहृतिच्छलात् ॥ भाषा-जिसके सब चरणों में प्रथम, तृतीय, सप्तम नवम और एकादश अक्षर दीर्घ हो, उसको कविजन रथोद्धता छन्द कहते हैं ॥ २५ ॥