________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
यावत्सर्वेऽपि निर्वीडं क्रीडन्ति स्म पृथक् पृथक् । तावत्कलकलः कोऽपि दुस्सहः सहसाऽभवत् ॥६९०॥ राजा पृष्टश्च 'निष्टंक्याऽऽचष्ट कोऽपि भटः प्रभो ! । नृपोऽस्ति नाम्ना वीराङ्गः सारङ्गपुरपत्तने ॥६९१॥ शूरस्तस्य सुतः सूरनामायं पूर्ववैरतः । त्वत्पुत्रं हंसमभ्यागात् क्रुद्धो हस्तीव हस्तिनम् ॥६९२॥ निशम्येति स्फुरत्तर्कस्तर्कयाञ्चकृवान् नृपः । राज्यं करोम्यहं राज्यचिन्तां पुनरयं शुकः ॥६९३॥ मत्सेवकश्च वीराङ्गस्तदहो हंससूरयोः । वैरस्य हेतोव॑रस्य भवेत् किं नाम कारणम् ॥६९४॥ ध्यायन्निति दधावाऽसावुत्सुकः शुकहंसयुक् । यावत्तावत्कश्चिदेत्य भटोऽभाषिष्ट भूभुजम् ॥६९५॥ प्राग्भवे देव ! पुत्रस्ते हंसः सूरं पराभवत् । तेन वैरेण सूरोऽयं याचते हंसमाहवम् ॥६९६।। वीरावतंसो हंसोऽथ पितरं भ्रातरं भृशम् । सन्नह्यन्तं निवार्याशु डुढौके योद्धमुद्धरः ॥६९७॥ सूरोऽपि भूरिशस्त्रौघैरुग्रं साङ्ग्रामिकं स्थम् । आरूढः प्रौढदर्पण सङ्ग्रामाङ्गणमागमत् ॥६९८॥ सर्वेष्वन्येषु पश्यत्सु शस्त्राशस्त्रि तयोश्चिरम् । महायुद्धमभूत् पार्थकर्णयोरिव चित्रकृत् ॥६९९॥ तौ द्वावपि भृशं युद्धश्रद्धालू श्राद्धभोजिनौ । ब्राह्मणाविव नो तृप्ति कियताऽप्यापतुस्तदा ।।७००॥
१. निश्चित्य । २. युद्धम् ।