________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
इति श्रुत्वा शुकोऽश्रूणि स्रवन् शोकलवानिव । प्रोचेऽन्तिके कथं तीर्थमनत्वा देव्युपैम्यहम् ॥६७९॥ छेकेनाऽप्युत्सुकेनाऽपि कार्यमेव यथोचितम् । सद्धर्मकर्माऽवसरानुप्राप्तमिव भोजनम् ॥६८०॥ माताऽत्र स्वार्थकृत्तीर्थमत्राऽमुत्राप्यदः पुनः । एतदानत्य तत्तत्राऽऽगच्छन्नस्मि समुत्सुकः ॥६८१॥ आयातमेव मां मातुर्वदेरित्युदिता द्रुतम् । देवी तथाकरोत्साऽथ सोऽपि तीर्थमुपास्थितः ॥६८२॥ विस्मयायतने सिद्धायतने तत्र शाश्वते । 'नत्वार्चाः शाश्वती: स स्वं कृतार्थीकृतवान् जनुः ॥६८३॥ व्याघुट्य द्रागथादाय दयिते श्वसुरावुभौ । मातामहं चानुज्ञाप्य युगादीशं प्रणम्य च ॥६८४॥ निःसमानविमानस्थः प्रोद्दण्डाडम्बरेण यः । सेव्यो वैद्याधरैर्वृन्दैः स्वपुरासन्नमियिवान् ॥६८५॥ युग्मम् । सुश्लाघामुखरमुखैर्वीक्ष्यमाणोऽखिलैर्जनैः । जयन्त इव शक्रस्य स पुरं प्राविशत् पितुः ॥६८६॥ अकारि च पुरे पित्रा पुत्रागममहो महान् । सार्वत्रिको हि महतां हर्षः प्रावृषिकाऽद्ववत् ॥६८७॥ शुकराजो राज्यचिन्तां चक्रेऽथ युवराजवत् । स 'किं पुत्रः प्रभुष्णुर्यः पैतृकी नोद्धरेद्धरम् ? ॥६८८॥ क्रीडासिन्धौ 'मधौ लब्धप्रसरेऽथ नरेश्वरः । इयाय सत्रा पुत्राभ्यामारामं सपरिच्छदः ॥६८९॥
१. प्रतिमाः । २. कुत्सितः पुत्रः इत्यप्यर्थः । ३. वसन्ते ।