________________
प्रथमः
प्रकाशः
६९
गोमुखाख्यस्य यक्षस्य शिक्षया सुगुरोरिव । रक्षार्थं तीर्थमुख्यस्य काश्मीरमधितस्थुषः ||६६७॥ प्रयान्ती क्षितिप्रतिष्ठपुरोपर्यहमाययौ । तत्रैकां रुदतीं प्रोच्चैः सुदतीं निशशाम च ॥ ६६८ ॥ युग्मम् । ततः सपदि तद्दुःखग्रस्ताऽधस्तादवातरम् । स किं जीवन्न दुःखी यः परं प्रेक्ष्यापि दुःखिनम् ॥६६९॥ रमामिव गृहारामे तां व्यालोक्याऽऽकुलां शुचा । पर्यन्वयुक्षि पद्माक्षि ! किं ते दुःखमथाह सा ॥६७०॥ मामकीनः शुकः सूनुर्निन्ये गाङ्गलिनाऽऽश्रमे । कुशलादि चिरात्तस्य नैव वेद्मीति रोदिमि ॥६७१॥ मयाऽथाऽवादि मा रोदीर्भद्रे ! तत्रैव याम्यहम् । कुशलं वलमानाऽऽशु समानेष्ये सुतस्य ते ॥ ६७२ ॥ तामित्याश्वास्य तत्तीर्थं प्रयाता त्वामवीक्ष्य तु । समीक्ष्य चावधिज्ञानादत्रायाताऽस्मि संप्रति ॥ ६७३ ॥ द्राक् तदागत्य विज्ञात्मन् ! आत्ममातरमातुराम् । स्वदर्शनामृतरसैः सिञ्चस्वाऽमृतमेघवत् ॥६७४॥ सुपुत्राश्च सुशिष्याश्च सुस्नुषाश्च विशेषतः । सर्वथैवाऽनुवर्त्तन्ते गुरून् भृत्या इव प्रभून् ॥६७५॥ प्रेप्स्यन्ते पितृभिः पुत्राः स्वात्मनः सुखहेतवे । तेऽपि चेद्दुःखहेतुः स्युरुत्थितोऽग्निस्तदोदकात् ॥६७६॥ जननी माननीया च पित्रोरपि विशेषतः । यदुच्यते पितुर्माता सहस्त्रगुणगौरवा ॥ ६७७ ||
तदुक्तं-ऊढो गर्भः प्रसवसमये सोढमप्युग्रशूलं, पथ्याहारैः स्नपनविधिभिः स्तन्यपानप्रयत्नैः । विष्टामूत्रप्रभृतिमलिनैः कष्टमासाद्य सद्यः, त्रातः पुत्रः कथमपि यया स्तूयतां सैव माता ॥६७८ ॥
श्राद्धविधिप्रकरणम्