________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
तौ द्वावपि वरौ वीरौ महोत्साहौ महाबलौ । तुल्यौ वीक्ष्य क्षणं भेजे जयश्रीरपि संशयम् ॥७०१॥ अथ हंसेन सूरस्य शस्त्राणि निखिलान्यपि । छिन्नानि क्रमशः क्ष्माभृत्यक्षा इव 'बिडौजसा ॥७०२॥ ततः सूरः स्फुरत्क्रोधपूरदुर्धरसिन्धुर': । हंसं हन्तुमधाविष्ट मुष्टिमुत्पाट्य वज्रवत् ॥७०३॥ शङ्कितेन तदा राज्ञा शुकसन्मुखमीक्षिते । दक्षः शुकोऽपि हंसाङ्गे स्वविद्याः समचिक्रमत् ॥७०४॥ तबलात्तत्क्षणं हंसः सूरमुत्पाट्य दूरतः । साधिक्षेपं प्रचिक्षेप प्रोच्चैः कन्दुकलीलया ॥७०५॥ सूरः स्वसैन्यमुल्लङ्घ्य पपात परतस्ततः । सैन्यस्य न्युञ्छनमिव प्रार्छन्मूर्छा न सोच्छ्रयाम् । ७०६॥ सेवकैरुदकैः सिक्तः कृच्छ्राद् बाह्यां स चेतनाम् । प्राप कोपस्फुटफलात् सुखेनाभ्यन्तरी पुनः ॥७०७॥ दध्यौ च धिग् ! मया क्रोधान्मुधा लेभे पराभवः । भवश्च पुरतो रौद्रध्यानेनाऽनन्तदुःखदः ।।७०८॥ इति ध्यायन् विशुद्धात्मा त्यक्तक्रोधविरोधधीः । क्षमयामास भूमीशं सद्विपुत्रं मृगध्वजम् ॥७०९॥ स भूभुजाऽऽश्चर्ययुजा वैरं वेत्सि कथं न्विति । पृष्टोऽभ्यधत्त श्रीदत्तः केवली प्राप नः पुरे ॥७१०॥ मत्पृष्टः प्राग्भवं सोऽवक् भो भद्दिलपुरे नृपः । जितारिहँसीसारस्यौ देव्यौ सिंहश्च मन्त्रिराट् ॥७११॥
१. इन्द्रेण । २. गजः । ३. सङ्क्रामयामास । ४. पुत्रद्वयसहितम् ।