________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
कश्चित्परः सिद्धविद्यः पुनर्दद्याद्यदि स्वकम् । मूर्ति कृत्वा कर तर्हि मम स्फुरति नान्यथा ॥६४५॥ शुकः स्माहतमां मह्यं तर्हि देहि यथा ह्यहम् । सिद्धविद्यः पुनस्तुभ्यं तां ददे प्रतिदेयवत् ॥६४६॥ तुष्टेन तेन सा तस्मै दत्ताऽनेनापि साधिता । देवस्य दृष्टौ पुण्यैर्द्राक् सिद्धा शुद्धात्मनोऽस्य च ॥६४७॥ साऽस्मै ददे शुकेनापि सिद्धा च पाठसिद्धवत् । ततो द्वावपि जज्ञाते खेचरौ भूचरावपि ॥६४८॥ विद्या विद्याभृताऽन्या अप्यदीयन्त शुकाय च । अगण्यपुण्यसंयोगैः किं किं वा दुर्लभं नृणाम् ॥६४९॥ विकुयॊच्चैर्विमानं तौ निर्देशाद् गाङ्गलेस्ततः । वनिते ते सहाऽऽदाय पुरी चम्पामुपेयतुः ॥६५०॥ कन्याहरणसंभूतप्रभूतार्तितमोग्रहम् । राज्ञः सङ्गत्य सद्यस्तौ बुधवत्प्रत्यषेधताम् ॥६५१॥ राज्ञा जिज्ञासिते व्योमगामिनापि प्रकाशिते । वृत्ते समस्ते सोऽज्ञासीत् शुकं स्वकसुहृत्सुतम् ॥६५२॥ शास्त्रेषु मित्रपुत्रस्य राजा रिपुरिति स्थितिः । चित्रं मित्रभुवस्त्वस्य स राजा प्रेमभूरभूत् ॥६५३॥ स तस्मै मित्रपुत्रायाऽप्यमन्दाय मुदा ददौ । तां नन्दनां निजामेवं प्रीतिः स्फीतिमुपैति हि ॥६५४॥ वधूवरस्यावनिपः परं परिणयोत्सवम् । चक्रे वरं च सच्चक्रे प्रोच्चैः प्रेम्णः स्थितिॉसौ ॥६५५॥
१. राहुम् । २. राज्ञः पक्षे चन्द्रस्य । ३. पक्षे बुधग्रहवत् । ४. पक्षे सूर्यपुत्रस्य शनैश्चस्य । ५. राजा चन्द्रः ।