________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
त्यक्त्वाऽत्र मां च तां नीत्वा काकनाशं ननाश सः । तद्दुःखाद्रोदिमीत्युक्ते तामाश्वासितवान् शुकः ॥६३४॥ तां च मुक्त्वोटजे क्वापि खेचरं शोधयन्नयम् । भ्राम्यन् पश्चिमयामिन्यां चैत्यपृष्ठमुपेयिवान् ॥६३५॥ अद्राक्षीच्च नरं कञ्चित् क्रन्दतं पतितं भुवि । अप्राक्षीच्च दयादक्षः कस्त्वं दुःखं च ते किमु ॥६३६॥ कृपालोः सम्यगाख्येयमित्याख्यत् सोऽप्यहो अहम् । सूनुर्गगनवल्लभपुरेशखेचरेशितुः ॥६३७॥ वायुवेगेति सत्याह्वः कन्यां हृत्वा व्रजन्निह । तीर्थस्योल्लङ्घनाद् भ्रष्टविद्यः सद्यः प्रपेतिवान् ॥६३८॥ अन्यकन्याऽपहृतिजात् पातकान्नु प्रपातुकः । व्यमुचं कन्यकां रागबुद्धिमप्यर्दिताङ्गकः ॥६३९॥ शकुनीव शाकुनिकमुक्ता सापि ययौ क्वचित् । हा मां लोभेच्छया 'मूलहारिणं पापकारिणम् ॥६४०॥ जिज्ञासितव्यतिकरोपलब्धिमुदितस्ततः । शुकोऽन्विष्यन्नवैक्षिष्ट चैत्यान्तस्तां सुरीमिव ॥६४१॥ धात्रीपुत्र्यौ शुकेनाथ मेलिते कलिते मुदा । खेचरोऽप्युपचारेण पटूचक्रेऽमुना क्रमात् ॥६४२॥ जीवितोपकृतिक्रीतः स्फीतप्रीतिः शुकस्य सः । बभूव खेचरोऽप्यस्याऽनुचरः सुकृतान्यहो ॥६४३॥ भो ! नभोगामिनी विद्या विद्यते ते न वेति ? सः । शुकपृष्टोऽन्यदाऽवादीद् विद्यते न पुनः स्फुरेत् ॥६४४॥
१. पर्णकुट्यम् । २. मूलधनहारिणम् ।