________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
पूज्यादेशाद् व्रजिष्यामि तत्तत्राहमथो नृपः । मन्त्रिणां मुखमैक्षिष्ट मन्त्रिणोऽप्याचचक्षिरे ॥६२३॥ ऋषीन्द्रोऽर्थी प्रदाता त्वं रक्षितव्या च तीर्थभूः । रक्षकः शुकराजश्चेदनुमन्यामहेतमाम् ॥६२४॥ तत्पायसे 'घृतसिताक्षेपं मत्वोत्सुकः शुकः । समं तेनाचलत्पित्रोर्नत्वाऽङ्घी साश्रुनेत्रयोः ॥६२५।। स पार्थ इव तूणीरधनुर्द्धरणदुर्धरः । तत्क्षणात्प्राप्य तत्तीर्थमाराध्यं तत्र तस्थिवान् ॥६२६॥ तत्प्रभावादभूत् तत्राश्रमे पुष्पफलोच्छ्रयः । दुःश्वापददवाग्न्यादिर्नोपदुद्राव च क्वचित् ॥६२७॥ कोऽप्यहो प्राग्भवाचीर्णश्रीधर्ममहिमा महान् । नृमात्रस्यापि तीर्थेशस्येव येनेदृशी स्थितिः ॥६२८॥ तापसानां स सान्निध्यात् सुखं तत्राश्रमे वसन् । रजन्यामन्यदाऽश्रौषीत् सुदती रुदती क्वचित् ॥६२९॥ कारुण्याम्बुनिधिः सत्त्वनिधिर्गत्वाऽथ तत्र ताम् । आलाप्य मसृणालापरप्राक्षीत् दुःखकारणम् ॥६३०॥ साऽप्याऽह पुरि चम्पायां निष्कम्पायां रिपुव्रजैः । राजास्ति नामतः शत्रुमर्दनः शत्रुमर्दनः ॥६३१॥ गुणैः पद्मावती साक्षात् तस्य पद्मावती सुता । मया धात्र्याऽन्यदोत्सगे नीता रङ्गेण यावता ॥६३२॥ तावन्मया समं विद्याभृता केनापि पापिना । हर्यक्षेणाऽपजहे सा जवाद्वत्सेव धेनुयुक् ॥६३३॥
१. घृतशर्कराप्रक्षेपं । २. कोमलालापैः । ३. सिंहेन ।