________________
प्रथमः प्रकाशः
६४
क्षितिप्रतिष्ठनगरं ननु दूरतरं कथम् । तदाह्वानकृते यामि मयेत्युक्ते स उक्तवान् ॥६१२॥ गमागमौ तव मुने ! तत्र दूरेऽप्यदूरवत् । मध्ये मध्याह्नमह्नाय मत्प्रभावाद्भविष्यतः ॥६१३॥ इत्याख्याय गते यक्षे प्रबुद्धोऽहं प्रगे ततः । प्रस्थिताऽत्रागतश्च द्राक् किं न दिव्यानुभावतः ॥६१४॥ तद् दक्ष ! दक्षिणावन् मे द्राग् देह्यन्यतरं सुतम् । सकाले शीतले येन यामः स्वाश्रममश्रमात् ॥६१५॥ द्वितीयोऽप्यद्वितीयश्रीर्बालोऽप्यबालविक्रमः । जगाद सादरमथो हंसो हंसोल्लसद्ध्वनिः ॥६१६॥ यास्यामि तीर्थरक्षार्थं तातेति पितरौ ततः । प्रोचतुर्युञ्छने वत्स ! भवावस्तव भाषिते ॥६१७॥ ऋषिश्चाख्यत् `चित्रपात्रं क्षात्रं बाल्येऽप्यहो महः । सतां भानोश्च न वयोऽपेक्षिणी वा महस्विता ॥ ६१८ ॥ भूपालोऽथाऽऽह बालोऽयं प्रहेतुं शक्यते कथम् । शक्तेऽपि हि शिशौ पित्रोः प्रेम्णाऽपायैकशङ्किता ॥ ६१९॥ भयान्यहो ! प्रेम पश्यत्यपदेऽपि पदे पदे । सिंही सिंहेऽपि शावे किं नाऽनिष्टाशङ्किनी क्वचित् ॥६२०॥ सोत्साहः प्राह तत्कालमौचितीचतुरः शुकः । प्राग् निनंसामि तत्तीर्थं कार्यं चैतदुपस्थितम् ॥६२१ ॥ मृदङ्गनादो नृत्येच्छोर्बुभुक्षोश्च निमन्त्रणम् । शय्यान्यासः शयालोश्च मम दिष्ट्येदमापतत् ॥६२२॥
१. प्रातः काले । २. आश्चर्यपात्रं । ३. नन्तुमिच्छामि ।
ससससस
श्राद्धविधिप्रकरणम्