________________
प्रथमः
प्रकाशः
६३
राजाऽस्य हंसराजेति सोत्सवं नाम निर्ममे । प्राशिष्टजननीदृष्टदिव्यस्वप्नानुसारतः ॥ ६०१ ॥ रूपादिभिरवर्द्धिष्ट प्रवर्द्धिष्णुसमृद्धिभिः । वलक्षपक्षपीयूषमयूख इव सोऽन्वहम् ||६०२ ॥ क्रमाच्च पञ्चवर्षोऽसौ हर्षोत्कर्षोत्सवो नृणाम् । शुकेन साकं चिक्रीड श्रीरामेणेव लक्ष्मणः ||६०३ ॥ पुत्राभ्यामर्थकामाभ्यां सेव्यं धर्ममिवान्यदा । वेत्री धात्रीशमास्थानस्थास्नुमित्थं व्यजिज्ञपत् ||६०४॥ द्वार्यागाद् गाङ्गलिर्गाङ्गश्रोतः सङ्ख्यसुशिष्ययुक् । विस्मितोर्वीशनिर्देशात् सोऽन्तः प्रावेशि तेन च ॥ ६०५ ॥ भूपः स्वागतिकीभूयाऽऽसनाद्यैस्तमनन्दयत् । सोऽपि सौवस्तिकीभूयाऽऽशीर्वादेन पुनर्नृपम् ॥ ६०६॥ तीर्थे तथाऽऽश्रमे क्षेमप्रश्नपूर्वमथो मुनिम् । नृपोऽन्वयुङ्क्तेह यते ! कं हेतुं कथमागमः ||६०७॥ आकार्य कमलमालां प्रतिसीरान्तरे सुताम् । ऋषिराख्यद् गौमुखाख्ययक्षः स्वप्नेऽद्य मामवक् ||६०८ ॥ मुख्यं श्रीविमलगिरिं गन्ताऽहं तीर्थमित्यथ । मयोक्तमेतत् कस्तीर्थं रक्षिता ? सोऽप्युवाच माम् ॥ ६०९ ॥ लोकोत्तरचरित्रौ हि दौहित्रौ हन्त ! यौ तव । भीमार्जुनाविव परौ शुकहंसाभिधाभृतौ ॥६१०॥ अनयोरानयेरेकमत्र भाव्यनुपद्रवम् । तन्माहात्म्येन महतां महिमा नहि मानयुक् ॥६११॥
१. शुक्लपक्षचन्द्रइव । २ त्रिसङ्ख्यसुशिष्यसहितः । ३. जवनिकान्तरे ।
ससससस
श्राद्धविधिप्रकरणम्