________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAAAAAAAAAAA
उक्तञ्च सिद्धान्ते दशधा सत्यं । तथाहिजणवय-समय-ठवणा, नामे रूवे पडुच्चसच्चे अ । ववहारभावजोगे, दसमे उवम्मसच्चे अ॥
तत्र कुङ्कणादिषु पयः पिच्चं नीरमुदकमित्यादि जनपदसत्यं, कुमुदकुवलयादीनां तुल्येऽपि पङ्कप्रभवत्वे लोकस्याऽरविन्दमेव पङ्कजं सम्मतमिति सम्मतसत्यं, लेप्यादिष्वर्हदादिस्थापना एककाद्यक्तविन्यासः कार्षापणादौ मुद्राविन्यासादि वा स्थापनासत्यं, कुलमवर्द्धयन्नपि कुलवर्द्धन इति नामसत्यं, लिङ्गमात्रधार्यपि व्रतीत्युच्यते तद्रूपसत्यं, प्रतीत्यसत्यं यथाऽनामिकाया | इतरे अङ्गल्यौ आश्रित्य दीर्घत्वं ह्रस्वत्वं च, तृणादौ दह्यमाने गिरिर्दह्यते-गलति भाजनं-अनुदरा कन्या-अलोमिका एडका इत्यादि व्यवहारसत्यं, वर्णादिरूपो भावस्तत्सत्यं यथा शुक्ला बलाकेति, सत्यपि हि पञ्चवर्णसम्भवे शुक्लवर्णस्योत्कटत्वात् | दण्डयोगात् दण्डीति योगसत्यं समुद्रवत्तडाग इत्यौपम्यसत्यम् ।।
इत्याकर्ण्य सकर्णात्मा तात ! मातरिति स्फुटम् । वक्तुं शुकः प्रववृते सर्वे पिप्रियिरेऽपि च ॥५९६॥ प्राह भूपः प्रभो ! धन्या यूयं येषामभूदिति । वैराग्यं यौवनेऽप्येवं भावि मेऽपि कदाऽप्यदः ॥५९७॥ मुनीन्द्रचन्द्रः प्रोचे या तव चन्द्रवती प्रिया । तत्पुत्रे दृक्पथं प्राप्ते वैराग्यं भावि ते दृढम् ॥५९८॥ ज्ञान्युक्तमिति निश्चित्य ज्ञानिनं प्रणिपत्य च । स सोल्लासः स्वमावासमासदत्सपरिच्छदः ॥५९९।। द्विधा सुदृक्सुधावर्षे दशवर्षे शुकेऽथ च । राज्याः कमलमालाया द्वितीयस्तनयोऽजनि ॥६००।