________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
जिघांसितस्त्वयाऽयं प्राक् त्वमनेन च संप्रति । घातेन घातो ववले गालिर्गाल्येव भोः किल ॥५८५॥ अतः परं परां प्रीतिस्फीतिमातनुतं युवाम् । अत्राऽमुत्रापि मैत्र्येव ध्रुवं सर्वार्थसाधनी ॥५८६॥ मिथः क्षान्तापराधौ तौ ततः प्रीतिमुपेयतुः । आद्यमेघादिवामोघाद् गुरुवाक्यान्न किं भवेत् ॥५८७॥
दिदेशाऽथ गुरुर्धर्मं धर्मं भव्या ! विधत्त भोः । सम्यक्त्वाद्यं यद्वशात्स्युः सर्वाः स्वेष्टार्थसिद्धयः ।।५८८॥ यतः-धर्माः परे परा' अप्याम्रादिकवत्फलन्ति नियतफलैः । जिनधर्मस्त्वखिलविधोऽप्यखिलफलैः कल्पफलद इव ॥५८९॥
श्रुत्वेति देशनां देशविरति प्रतिपेदिरे । सम्यक्त्वपूर्वमुर्वीशमुख्या मोक्षाभिलाषिणः ॥५९०॥ स व्यन्तरः स्वर्णरेखाऽप्यासेदतुः सुदर्शनम् । दिव्यौदारिकसंयोगोऽप्यभूमोहात्तयोश्चिरम् ।।५९१॥ श्रीदत्तः स्वपदे प्राप्तः क्षमापेन बहु मानितः । वित्तस्याऽर्द्धं स्वपुत्री च शङ्खदत्ताय दत्तवान् ॥५९२॥ सप्तक्षेत्र्यां स्ववित्तं च वापं वापमपापधीः । प्रव्रज्य ज्ञानिपार्श्वेऽसौ प्राप्तवान् विहरन्निह ॥५९३॥ ज्ञेयो जित्वा महामोहं सोऽहं सञ्जातकेवलः । ममापि प्राक् प्रिये जाते शुकराजाम्बिकासुते ॥५९४॥ तस्मादस्मिन्न संसारे चित्रकृत्किञ्चिदप्यदः । व्यावहारिकसत्येन व्यवहार्यमतो बुधैः ॥५९५॥
१. अन्ये । २. उत्कृष्टा ।