________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
ततः केवलिनां वर्यमार्यः पर्यन्वयुक्त सः । स्वामिन्नेष कथंकारमार' वारिनिधेरिह ॥५७४॥ सोऽप्यूचेऽसौ तदाऽम्भोधौ दैवात्फलकमाप्तवान् । क्षुधातः फलवन्नैव मृत्युस्त्रुटितायुषः ॥५७५॥ कूलानुकूलपवनप्रेरिताच्च ततोऽतरत् । सप्ताहेन सुवैद्योक्ताद् वाद्धि व्याधिमिवौषधात् ॥५७६॥ सोऽथ सारस्वतं नाम नगरं सागरान्तिके । सारस्वतं श्रान्त इव प्रवाहं प्राप्य पिप्रिये ॥५७७॥ तादृक्ष्यं वीक्ष्य वैलक्ष्याऽसंवर: संवराह्वयः । प्रेमातुलस्तमानिन्ये मातुलः स्वनिकेतनम् ॥५७८॥ सदौषधादिन्यासेन मासेन पुनरेनकम् । पटूचक्रेऽब्धिदग्धाङ्गं मूर्ख शिष्यं गुरुर्यथा ॥५७९॥ शुद्धि सुवर्णकूलादेर्शातुं मातुलमादृतः । तमसौ प्रश्नयामास कथयामास सोऽप्यथ ॥५८०॥ इतो विंशतियोजन्या तत्पुरं हन्त तत्र च । मया श्रुतं महेभानां महद्वाहनमागतम् ॥५८१॥ श्रुत्वेति तोषरोषाभ्यां नटवद्भावसङ्करम् । भजन्मातुलमापृच्छ्य पुरेत्रागच्छदाशु सः ॥५८२॥ 'क्रुत्परीतः परीपृच्छन् त्वां पुनः प्रापिवानिह । संयोगाश्च वियोगाश्च कर्मयोगानुगाः किल ॥५८३॥ मुनिः पुनः प्राच्यजन्मसम्बन्धाख्यानपूर्वकम् । शङ्खदत्तं प्रति प्रोचे कारुण्यैकमहार्णवः ॥५८४॥
१. आजगाम । २. एनम् । ३. क्रोधातुरः ।