________________
प्रथमः
प्रकाशः
५९
सोऽवक् प्रेष्टमिदं किंतु कन्या देयाऽस्ति कस्यचित् । भवाम्भोधिं तितीर्षोर्मे तच्चिन्ता ऽश्मशिलायते ॥५६३॥ गुरुरूचे सुताचिन्ता त्वच्चित्ते बाधते मुधा । त्वन्मित्रं शङ्खदत्तो यत्त्वत्पुत्रीं परिणेष्यति ॥५६४॥ श्रीदत्तः खेदतोऽवादीत्सगद्गदमुदश्रुदृक् । मित्रं कुत्र जगन्मित्र ! पापिनो निष्कृपस्य मे ॥ ५६५॥ गुरुणाऽभाणि भो भद्र ! मा विषीद च सीद च । समाहूत इवाऽऽगन्ता संप्रत्येव सुहृत्तव ॥५६६॥ यावद्विस्मयविस्मेरीभावमावहतेऽथ सः । तं वयस्यं समायान्तं तावद् दूरान्निरैक्षत ॥ ५६७ ॥ श्रीदत्तं सोऽपि निर्वर्ण्य वैवर्ण्य क्रोधतो दधत् । दधावे तद्वधायोच्चैः कृतान्त इव कोपनः ॥५६८ ॥ नृपत्यादीनुपतदं प्रेक्ष्य च क्षुभितः क्षणम् । तस्थौ स्तम्भितवद् यावत् तावत्साधुस्तमभ्यधात् ॥५६९॥ हे शङ्खदत्त ! चित्तस्य मुञ्च मुञ्च प्रकोपिताम् । कोपः कृशानुवत्तीव्रः स्वस्थानमपि निर्दहेत् ॥५७०॥ कोपः स्यात्किल चाण्डालस्तत्तस्याऽस्पृश्यतोचिता । स्पृष्टस्तु चित्रं नो गङ्गास्नानाद्यैरपि शुध्यति ॥५७१॥ श्रुत्वेति तात्त्विकीं वाचं वाचंयमशिरोमणेः । जाङ्गुलीमिव भोगीन्द्रः प्रशान्त इव सोऽभवत् ॥५७२॥ श्रीदत्तस्तं ततः प्रीत्यै बाहौ धृत्वा निजान्तिके । न्यवीविशद् वैमनस्यं दूरे स्यादेवमेव हि ॥५७३ ॥
AAAAA
श्राद्धविधिप्रकरणम्