________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
धन्येयं कामुकैः काम्या फुल्लमल्लीव षट्पदैः । निर्भाग्याभ्योऽपि निर्भाग्यां धिङ्मां भाऽपि वर्जिताम् ॥५५२॥ साऽबध्नादिति दुर्ध्यानात्पुनर्दुष्कर्म दुर्मतिः । प्रावृटकालादिव मलं लोहं ही मौढ्यमङ्गिनः ॥५५३॥ क्रमान्मृते ते ज्योतिष्कदेवीभूयमुपेयतुः । ततश्च्युते पुनः पुत्रीसवित्र्यौ ते बभूवतुः ॥५५४॥ दुर्भाषितेन तेनाऽभूत्पुत्र्यास्ते व्यालविप्लवः । जनन्या आपि दैन्याप्तिकृद्भिल्लैर्बन्दविद्रवः ॥५५५॥ तव मातुश्च वेश्यात्वमासीद्वेश्याप्रशंसया । न सम्भवेदसम्भाव्यमपि किं प्राच्यकर्मणा ॥५५६॥ वाङ्मात्रेणाऽयंते कर्म मनोमात्रेण वाऽपि यत् । ही तदप्यप्रतिक्रान्तं कायेनैवानुभूयते ॥५५७॥ भवांश्च प्राग्भवाभ्यासात्कामयामास ते उभे । प्रादुर्भवेद्यथाभ्यासं संस्कारो हि भवान्तरे ॥५५८।। भृशाभ्यासेऽपि संस्कारा धाः प्रेत्य न यान्त्यपि । मन्दा अमन्दास्त्वितरे यान्त्येवाऽग्रेसरा इव ॥५५९॥ श्रुत्वैवं भवनिर्वेदखेदमेदुरितोऽवदत् । श्रीदत्तस्तात ! संसारनिस्तारोपायमादिश ॥५६०॥ भवेद्यत्र भवे पुंसामीदृश्यपि विडम्बना । अप्रेतस्तत्र कः प्रेतवनप्राये रतिं व्रजेत् ॥५६१॥ सोऽप्याहाऽपारसंसारकान्तारोत्तरणं भवेत् । चरणैकबलादेव तद्यतस्वाऽत्र सत्वरम् ॥५६२॥
१. श्मशानसहशे।