________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAA
वियोगेन त्यक्तरङ्गे गौरीगङ्गे भवत्प्रिये । जाते मासोपवासिन्यौ ते तापस्यौ विरक्तितः ॥५४१॥ कुलस्त्रीणां हि वैधव्ये धर्म एवौचितीं श्रयेत् । द्वौ भवौ नृभवं प्राप्य हारयेत् कः कुधीर्मुधा ॥५४२॥ 'उदग्रोदन्यया दैन्यमन्येयुः प्रतिपादिता । गौरी नीरं मुहुः काञ्चिद्ययाचे परिचारिकाम् ॥५४३॥ तदा मध्यन्दिनोन्मुद्रनिद्रातन्द्रालुलोचना । सान्तर्हितस्थितिः प्रादाहुविनीतेव नोत्तरम् ॥५४४॥ तस्यै ततोऽल्पकोपाऽपि चुकोपाऽनल्पमेव सा । तपस्विव्याधितक्षुत्तृट्क्षीणेषु सुलभाः क्रुधः ॥५४५॥ क्रुधाऽभ्यधाच्च सा कि रे भक्षिताऽत्युग्रभोगिना । तुच्छे ! दत्से मृतेवाऽद्य यन्न प्रतिवचोऽपि मे ॥५४६॥ इत्थं तया भत्सितया रयादुत्थाय सूक्तिभिः । अनुनीय समानीय सा पानीयमपाय्यत ॥५४७॥ परं दुर्वचसा गौर्या बद्धं दुष्कर्म दुस्सहम् । हास्येनाऽपि हि दुष्टं स्याद्दुर्वाक्यं किं पुनः क्रुधा ॥५४८॥ गङ्गाऽप्यगादीदा देश्यामादेशावसरात्यये । जातु प्राप्तां स्ववैयग्रयात् शठदासीमिव क्रुधा ॥५४९॥ बन्दे ! धृताऽभूः केनाऽपि किं रे येनाऽधुनाऽऽगमः । गौर्याः स्पर्द्धादिवाऽबध्नात्साऽप्येवं कर्म धिक् क्रुधम् ॥५५०॥ गङ्गा च गणिकामेकामनेकैः कामुकैः समम् । विलसन्ती विलोक्योच्चैः कदाचिदिति दध्युषी ॥५५१॥
१. तीव्रतृषया । २. आदेश्यां=सेवाकारिणीम् ।
१७