________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
नाम्ना मैत्रेण मित्रेण सत्रा चैत्रोऽन्यदा ययौ । याञ्चाऽर्थं कुङ्कणे देशे भिक्षेष्टा हि द्विजन्मनाम् ॥५३०॥ बम्भ्रम्यन्तौ बहु द्रव्यमर्जयामासतुश्च तौ । चैत्रे सुप्तेऽन्यदा मैत्रो व्यततर्क कुतर्कहृत् ॥५३१॥ सर्वं द्रव्यं निहत्यैनं गृह्णामीति क्षणादयम् । उत्तस्थौ हन्तुमप्येनं हा धिगर्थमनर्थदम् ॥५३२॥ विवेकसत्यसन्तोषत्रपाप्रेमकृपादिकान् । विध्वंसतेऽर्थलुब्धो द्राग् दुर्वायुरिव वारिदान् ॥५३३॥ तत्रैव दैवयोगाच्च विवेकार्कोदयादयम् । विध्वस्ताऽयुक्तलोभान्धतमसः समचिन्तयत् ॥५३४॥ विश्वस्तमित्रघातार्थं धिग् धिग् मामाततायिनम् । निन्द्यं निन्द्यतमेभ्योऽपि ध्यात्वेत्यस्थात्तथैव सः ॥५३५॥ लाभाल्लोभः श्रयेद् वृद्धि कण्डू: कण्डूयनादिव । इति तौ लोभसंभ्रान्तौ बम्भ्रान्तः स्म पुनर्भुवि ॥५३६॥ अतिलोभो ह्यनायाऽत्राऽपीत्येकपदेऽन्यदा । लोभाविष्टौ प्रविष्टौ तावन्तर्वैतरणीसरित् ॥५३७॥ लोभपूरे पुरा मग्नौ तस्याः पूरे तदा पुनः । मृतौ तौ प्राप्य तिर्यक्त्वं भ्रमतुः कतिचिद् भवान् ।।५३८॥ भ्रान्त्वा च नृभवं प्राप्तौ युवां जातौ सुहृद्धरौ । तेन प्राक् त्वद्वधो ध्यातस्त्वयाऽब्धौ सोऽत्र पातितः ॥५३९॥ यद्यथा यादृशं कर्म क्रियते प्राक् तथा पुरः । अनुभूयेत तत्तादृग् वृद्धियुग् लभ्यदेयवत् ॥५४०॥
१. व्याजवृद्धिसहिताधमर्णवत् ।