________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
यतः-धारिज्जइ इंती जलणिही वि कल्लोलभिन्नकुलसेलो । णहु अण्णजम्मणिम्मिअसुहासुहो दिव्वपरिणामो ॥५१९॥
तस्य पुण्यैरिवाकृष्टो राष्ट्राऽन्तर्विहरंस्तदा । केवली मुनिचन्द्राह्वः पुनीते स्म बनान्तरम् ॥५२०॥ उद्यानपालविज्ञप्तः क्ष्मापालः सपरिच्छदः । गत्वा नत्वा ययाचे तं देशनां प्रातराशवत् ॥५२१॥ गुरुर्जगौ जगद्वन्धुर्न धर्मो यस्य नो नयः । तस्य का देशना देश्या मणिमाला कपेरिव ॥५२२॥ संभ्रान्तः क्षोणिकान्तस्तं प्राहाऽहमनयी कुतः । तेनोक्तं सत्यवक्तुः श्रीदत्तस्य कुरुषे नु किम् ॥५२३॥ ततः श्रीदत्तमाह्वाय्य हीणः क्षोणीन्दुरादरात् । निवेश्य स्वान्तिके यावत् प्रोचेऽसौ सत्यवाक् कथम् ॥५२४॥ वहन् सुवर्णरेखां स तावदागात् प्लवङ्गमः । तामुत्तार्य निविष्टश्च सर्वैर्दृष्टश्च कौतुकात् ॥५२५॥ श्रीदत्तः सत्यवादीति नृपाद्यैः श्लाघितस्ततः । पृष्टश्चाशेषवृत्तान्तः प्रभुणा प्रत्यपाद्यत ॥५२६॥ श्रीदत्तश्च ततः पृच्छां चक्रे वक्रेतराशयः । कुतः पुत्र्यां सवित्र्यां चानुरागोऽजनि मे प्रभो ! ॥५२७॥ गुरुः प्रोचे प्राच्यजन्मसम्बन्धात्तं पुनः शृणु । आसीत्पञ्चालदेशान्तः काम्पिल्यपुरपत्तनम् ॥५२८॥ अग्निशर्मा द्विजस्तत्र तत्पुत्रश्चैत्रनामभृत् । गौरीगङ्गाह्वये तस्य महेशस्येव वल्लभे ॥५२९॥
१. प्रभातभोजनवत् ।