________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
व्यक्तं तदानीं नादत्त श्रीदत्तः किञ्चिदुत्तरम् । न किञ्चित्सत्यमप्युक्तमियं मन्तेति चिन्तयन् ॥५०८॥ यतः-असम्भाव्यं न वक्तव्यं प्रत्यक्षं यदि दृश्यते । यथा वानरसङ्गीतं यथा तरति सा शिला ॥५०९॥ दुष्कर्मणेव नरके कारायां चिक्षिपेऽथ सः । राज्ञा रुष्टेन तद्भाण्डशाले मुद्राऽप्यदाप्यत ॥५१०॥ अक्षिप्यत च चेटीषु तत्पुत्री निजमन्दिरे । विधात्रेवावनीभा सत्रा मित्रात्मता कुतः ॥५११॥ अनुक्त्या वात्ययेवाभूद्भूपकोपाग्निदीपना । यथार्थमेव तद् वच्मि जातु भद्रं भवेत्ततः ॥५१२॥ ध्यात्वेत्यारक्षकैविज्ञापितस्तेन तथा नृपः । चारात् कृष्ट्वा तमप्राक्षीत् सोऽप्याख्यत्तां कपिर्ललौ ॥५१३॥ ततः सर्वे हसन्ति स्म शंसन्ति स्म च विस्मिताः । सत्यं कीदृगहो प्रोक्तमहो दुष्टस्य धृष्टता ॥५१४॥ कोपकम्प्रेण च क्षिप्रं राज्ञाऽदिष्टो वधाय सः । रोषस्तोषश्च महतां तत्कालं हि फलेग्रहिः ॥५१५॥ शौनिकैरिव गौर्भूभृद्भटैरत्युद्भटैः स्फुटम् । वधस्थानं नीयमानः स चेत्यन्तरचिन्तयत् ॥५१६॥ पुत्रीसवित्रीभोगेच्छामित्रद्रोहादिपातकम् । ध्रुवं मेऽत्रैव फलितं धिग् दुर्दैवदुरन्तताम् ॥५१७॥ किमिदं सत्यवादेऽपि निःसमं त्वसमञ्जसम् । विधि विरुद्धं रोद्धं वा कः क्षमः क्षुभिताब्धिवत् ॥५१८॥
५४
१. सफलः । २. घातकैः । ३. माता ।