________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAAA
सोऽवतीर्य प्लवङ्गाङ्गो त्वां तथा प्रत्यबूबुधत् । सूनोः पिता हिताकाङ्क्षी भवान्तरगतोऽपि हि ॥४९७॥ स चैनां प्राग्भवप्रेम्णा कपिरूपेण साम्प्रतम् । यास्यत्यारोप्य पृष्ठे द्राक् तव पश्यत एव भोः ॥४९८॥ वदत्येवं यतिवत्तावदेत्य स एव ताम् । सिंहोऽम्बिकामिवारोप्य पृष्ठे स्वेष्टं कपिर्ययौ ॥४९९॥ मोहविस्फूर्जितमहो अहो भवविडम्बना । ब्रुवन्नेवं शिरो धुन्वन् सोऽगान्नीत्वा गृहेऽङ्गजाम् ॥५००। तावत्सुवर्णरेखा क्वेत्यक्कया प्रश्निता जगुः । दास्योऽनुमत्य लक्षार्द्ध श्रीदत्तस्तां वनेऽनयत् ॥५०१॥ आह्वातुं तां तया दास्यः प्रहिताः क्वापि हट्टके । दृष्ट्वोपविष्टं श्रीदत्तं पृष्टवत्यः ससंभ्रमम् ॥५०२॥ सुवर्णरेखा कुत्रेति श्रीदत्तोऽप्यवदत्तदा । यो वेत्ति कुत्र यातेति तस्या अनुचरोऽस्मि किम् ॥५०३।। गत्वाऽथ दौष्ट्यपेटीभिश्चेटीभिः कथिते तथा । रोषेण 'राक्षसीदेश्या सा वेश्याऽग्रेनृपं ययौ ॥५०४॥ मुषिता मुषिताऽस्मीशेत्युच्चैः पूच्चक्रुषी च सा । किमेतदिति राज्ञाऽथ पृष्टाऽभाषिष्ट कष्टभृत् ॥५०५॥ सुवर्णरेखां साक्षान्मे सुवर्णपुरुषं प्रभो ! । श्रीदत्तः क्वाऽप्यपाहार्षित् पश्यतोहरशेखरः ॥५०६॥ तस्याश्चोरियमुष्ट्रस्येवाऽतक्येति विस्मितः । ततः श्रीदत्तमाह्वाय प्रष्टव्यं पृष्टवान्नृपः ॥५०७॥
१. राक्षसीसदृशी । २. पूत्कारं कुर्वती । ३. चीरचूडामणिः ।