________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
क्रमादाजन्मवेश्येव सापि तद्धर्ममीयुषी । वारि संपृच्यते येन तेन तन्मयतां श्रयेत् ॥४८६॥ धिग्धिक्कुसङ्गति सापि ययाऽन्येव बभूवुषी । तद्भवेऽपि भवेयुर्वा दुर्दैवाद् भूरयो भवाः ॥४८७॥ क्षोणीशं प्रीणयामास सा सर्वाङ्गीणनैपुणात् । तथा यथाऽमुना सैव चक्रे चामरहारिणी ॥४८८॥ सेयं तव सवित्री भो भवान्तरगतेव तु । रूपस्वरूपादिभिदा प्रत्यभ्यज्ञायि न त्वया ॥४८९॥ त्वां तु प्रत्यभिजज्ञौ सा हिया लोभाच्च नाभ्यधात् । अहो लोभस्य साम्राज्यं सर्वाङ्गीणमभङ्गरम् ॥४९०॥ धिग् धिक् पण्याङ्गनापापकर्म दुष्कर्मसीमगम् । मात्रा यत्राऽर्थमात्राऽर्थं पुत्रो ज्ञात्वापि काम्यते ॥४९१॥ निन्द्या निन्द्यादपि त्याज्यास्त्याज्यादपि पणस्त्रियः । स्थाने विज्ञैर्विनिर्दिष्टा यासां दुःशीलतेदृशी ॥४९२॥ विषादविस्मयायत्तचित्तस्तमवदत्ततः । श्रीदत्तस्त्रिजगद्वेत्तर् ! एतद्वेत्ति कथं कपिः ॥४९३॥ साधो ! साधुरिवोद्धर्ताऽन्धकूपे पततः स मे । कथं च मानुषी भाषां भाषतेऽथाऽभ्यधाद् ऋषिः ॥४९४॥ यस्तदा ते पिता सोमश्रियं ध्यायन् पुरं विशन् । अकाण्डकाण्डघातेन मृतः स व्यन्तरोऽभवत् ॥४९५॥ वनाद्वनं परिभ्राम्यन् भृङ्गवच्चित्तरङ्गवान् । दैवादत्रागतो मात्रासक्तं स त्वामवैक्षत ॥४९६॥
१. सर्वज्ञ !।