________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAN
जगाद गद्गदं सापि कापि नैवास्मि देवता । मां मानवीमेव विदांकुर्वन्त्वेतां विदांवराः ! ॥४७५॥ दुःखकूपानुपातोऽस्माद्रूपादेवाभिरूपतः । ममाऽभवद्विधौ क्रुद्धे दोषायैव गुणोऽपि हि ॥४७६॥ सुखं नः सन्निधौ तिष्ठेत्युदित्वा मुदितास्ततः । तेऽप्यगोपायिषुर्गुप्तं तां रत्नमिव यत्नतः ॥४७७॥ तां तादृक्षगुणाक्रान्तां कान्तं कर्तुमथैषिषुः । प्रत्येकमपि ते भक्ष्यं प्रेक्ष्य को न बुभुक्षते ॥४७८॥ प्राप्ताः सुवर्णकुलेऽस्मिस्ते क्रमात् सदुपक्रमात् । नानावस्तू*न्याददिरे तदर्थं हि तदागमः ॥४७९॥ समर्धीभूतमधिकं तदा त्वेकं क्रयाणकम् । तेऽजिघृक्षन्त साक्षेपं वणिग्रीतिरियं खलु ॥४८०॥ प्राच्यपुण्यद्धिवद् भोग्यफलभोगेन निष्ठिता । नैवाऽस्ति नीवि प्राग्वस्त्वादानेनोपतदं तदा ॥४८१॥ तद् व्यक्रीणन्त तेऽप्येतां वेश्यास्थाने धनेच्छया । लोभ एवोद्भटः पुंसां विशिष्य वणिजां पुनः ॥४८२॥ वेश्या विभ्रमवत्याख्या द्रव्यलक्षार्पणान्मुदा । स्वीचक्रे तां च तज्जातेयुवतिः किल कामधुक् ॥४८३॥ तस्याः सुवर्णरखेति नव्याऽऽख्याऽख्याप्यताऽनया । गृहान्तरगतौ प्रायः स्त्रीणां नामान्तरं भवेत् ॥४८४॥ शिक्षादक्षा च साक्षेपं शिक्षयामास तामसौ । गीतनृत्यादिनैपुण्यं पण्यं पण्यमृगीदृशाम् ॥४८५॥
★ वस्तून् इति को० ह० प्र० पाठः । १. तदा इत्यव्ययस्याव्ययीभावसमासे उपतदम् ।