________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAA
तेऽथ प्रतोली 'द्रुघणैर्भक्त्वा शीर्णामिव क्षणात् । प्राविक्षस्तत्पुरान्तर्द्राक् सरित्पूरानुकारिणः ॥४६५॥ पुरः पुरं विशन् सोमः कान्तोत्कस्ते पिता तदा । ललाटलग्नबाणार्त्तः सद्य एव व्यपद्यत ॥४६६॥ अन्यथा चिन्त्यते कार्यं दैवेन क्रियतेऽन्यथा । प्रियकृते हि प्रारंभः स्वात्मघातकृतेऽभवत् ॥४६७॥ आह च कथासङ्ग्राहकगाथाकृत् - अन्नं गयस्स हिअए, अन्नं वाहस्स अन्नमुरगस्स । अन्नं सियालहिअए अन्नं हिअए कयंतस्स ॥४६८॥ आत्यन्तिकभयभ्रान्तस्वान्तः कान्तः क्षितेस्ततः । सूरकान्तः प्रणश्याऽगात् कुतो वा पापिनां जयः ॥४६९॥ सोमश्रीश्च तदा कम्प्रा त्रस्यन्तीव कुरङ्गिका । द्राक् पल्लिभिल्लैर्जगृहे दुष्टैर्गोष्ठशुनैरिव ॥४७०॥ विलुण्ट्य नगरं स्वैरं स्वस्थानं प्रतिगच्छताम् । तेषां पार्वात् प्रणष्टा सा कथञ्चिदैवयोगतः ॥४७१॥ तयाऽरण्ये भ्रमन्त्या चाऽभक्षि किंचित्तरोः फलम् । हृस्वाङ्गी तदभूत्किञ्चिद् गौराङ्गी च विशिष्य सा ॥४७२॥ कोऽप्यचिन्त्यो मणिमन्त्रौषधीनां महिमाऽथ सा । वणिग्भिरध्वगैः कैश्चिद् दृष्टा पृष्टा च विस्मितैः ॥४७३॥ का त्वं देवाङ्गना नागाङ्गना वा वनदेवता । स्थलदेव्यम्बुदेवी वा मानवी तु न सर्वथा ॥४७४॥
१. दुघणे: मुद्गरैः ।