________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
निश्चैतन्याऽथ सा कन्या जनन्या_विधापितैः । प्रापोपचारैश्चैतन्यं न वन्ध्येव स्तनन्धयम् ॥४५४॥ सहसा वह्निसात्कर्तुमहिग्रस्तं हि नार्हति । आयुर्दाढ्यादिसंयोगे प्रोज्जीवत्यपि जातुचित् ॥४५५॥ इत्यन्तर्म मञ्जूषं क्षिप्त्वा निम्बदलैर्वृताम् । ते त्यक्तरङ्गा गङ्गायाः प्रवाहे तामवाहयत् ॥४५६॥ तदाम्बुदमहावृष्ट्या गङ्गा पूरमुपेयुषी । दुर्नीतिरिव तीरद्रून् स्वाश्रितान् द्रागुपाद्रवत् ॥४५७॥ तेन पूरेण दूरेण प्रेरिता वायुनेव नौः । प्रापुषी मञ्जमञ्जुषा साब्धौ लब्धा ततस्त्वया ॥४५८॥ पुरः सर्वं स्वयं वेत्ति सेयं पुत्री भवेत्तव । अथो मातुर्बुवे वृत्तं चित्तं कृत्वा स्थिरं शृणु ॥४५९।। तस्मात्पल्लीपतेः सैन्याद्दवादिव सुदुस्सहात् । निस्तेजाः सूरकान्तोऽभूद्युक्तमभ्यर्णमीयुषः ॥४६०॥ सज्जीचकार प्राकारं सोऽनुकारं गिरेस्ततः । पुरीं च पूरयामास 'तृण्याधान्येन्धनादिभिः ॥४६१॥ मध्येदुर्गं च दुर्धर्षान् न्यधाद्योधानुदायुधान् । योऽभ्येत्य योद्धमनलं बलं तस्येदृगेव हि ॥४६२॥ सेनाऽथ पल्लिनाथस्याऽप्यक्रमेण प्रचक्रमे । कियदेतिकया' भेत्तुं दुर्गं दुष्कर्मवन्मुनिः ॥४६३॥ तत्सैन्याश्च तदा दुर्गोपरिस्थसुभटाशुगान्ने । नाजीगणंस्तृणायापि द्विपा मत्ता इवाङ्कशान् ॥४६४॥
१. तृण्या-तृणसमूहः । २. एतत् कियत् किंमात्रम् इति बुद्ध्या । ३. आशुगान् बाणान् ।