________________
प्रथमः
प्रकाशः
४८
न युक्ताऽनर्थशङ्कायां प्रवृत्तिः सुधियां क्वचित् । विशत्यनिश्चित स्ताघे श्रेयस्कामः किमम्भसि ॥४४३ ॥ इतस्ततः स बम्भ्रम्यन्मुनिमेकमवैक्षत । नत्वेममूचे कपिना पातितोऽस्मि भ्रमोदधौ ॥४४४॥ ज्ञानेनोद्धर मां स्वामिन् ! मुनीन्द्रोऽप्याह मद्गुरुः । केवली देशमध्येऽस्ति भानुवद् भुवि बोधकृत् ॥४४५॥ ज्ञानेन जानेऽवधिनाऽधुनाहमपि वच्मि च । यथा भोः ! कपिना प्रोचे तत्तथैवाऽऽप्तवाक्यवत् ॥४४६॥ कथमित्थमिति प्रोक्तेऽमुना मुनिवरोऽप्यवक् । आकर्णय सकर्ण ! प्राक् पुत्र्या व्यतिकरं ब्रुवे ||४४७॥ त्वत्पिता स्वप्रियाहेतोः प्रच्छन्नं प्रस्थितस्तदा । समरं समरक्रूरं पल्लीपतिमुपास्थितः ॥४४८ ॥
वोचितो ऽत्रेति तस्य तद्द्रव्यदानतः । अचीचलन्महासैन्यं श्रीमन्दिरपुरं प्रति ॥ ४४९ ॥ तस्माद् वार्द्धेरिवोद्वेलाः प्रबलास्तत्पुरप्रजाः । भीताः स्थानं शिवं गन्तुमीषुर्भव्या भवादिव ॥४५० ॥ तदा त्वद्दयिता गङ्गातीरे सिंहपुरे पुरे । सुतायुता पितुर्वेश्म सुमुखी जग्मुषी जवात् ॥४५१ ॥
तत्रैषा बहुवर्षाणि तस्थौ स्वभ्रातृसन्निधौ । स्त्रीणां पत्याद्ययोगे हि पिता भ्रातैव वा गतिः ॥ ४५२ ॥ मासे कदाचिदाषाढे विषागाढेन सा सुता । अदंशि दन्दशूकेन धिग् दुष्कर्मदुरात्मताम् ॥४५३॥
१. अनिश्चितगाम्भीर्ये । २. हे विद्वन् ! ।
चचचच
श्राद्धविधि
प्रकरणम्