________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
धिग् धिग् निन्द्यतमं जन्म पशूनामविवेकिनाम् । यत्र स्वमातृपुत्र्यादिविभागोऽपि न विद्यते ॥३३१॥ किं तेन जन्मना पापजन्मना जीवितेन च । कृत्याकृत्यविविक्तत्वोपलब्धौ यत्र मुग्धता ॥४३२॥ तदाकर्ण्य पराक्षिप्त इव वादी मदोद्धरः । गच्छन्नपि कपिः पश्चाद्वलितः प्रत्युवाच तम् ॥४३३॥ रे रे दुष्ट ! दुराचार ! परदोषैकभाषक !! ज्वलत्पश्यसि शैलागे न पुनः पादयोरधः ॥४३४॥ यतः-राईसरिसवमित्ताणि परच्छिद्दाणि गवेसए । अप्पणो बिल्लीमित्ताणि पासंतोवि न पासई ॥४३५॥ रे स्वपुत्री सवित्री च निवेश्यैवं स्वपार्श्वयोः । स्वमित्रमब्धौ क्षिप्त्वा च पाप ! मामिति निन्दसि ॥४३६॥ जल्पित्वेत्युल्लसन्नेव स स्वयूथे समीयिवान् । वज्राहत इवाऽत्यातः श्रीदत्तश्चेति दध्यिवान् ॥४३७॥ धिक् किमेतदनेनोक्तमसमञ्जसमञ्जसा । बालेयमम्बुधौ लब्धा पुत्रिका मामिका कथम् ॥४३८॥ एषा सुवर्णरखाऽपि जनयित्री कुतो मम । सोमश्रीर्जनयित्री मे किञ्चिदुच्चैर्वपुश्च सा ॥४३९॥ किमपि श्यामलाङ्गी च सा न चैषा तु तादृशी । वयोवर्षानुमानात् स्याद् बालेयं जातु मे सुता ॥४४०॥ प्रसूरियं तु नैव स्यादिमां पृच्छामि चेति सा । पृष्टा स्पष्टमभाषिष्ट भोः कस्त्वामुपलक्षयेत् ॥४४१॥ पशुवाचा विभ्रमे किं पतितोऽसि मुधा बुध ! । तयेत्युक्तोऽपि साशङ्कचित्तः श्रीदत्त उत्थितः ॥४४२॥