________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
श्रीदत्तेन च दन्तीन्द्राः क्षितीन्द्राय डुढौकिरे । उत्तार्य सोत्सवं सोऽपि हृष्टस्तं बह्वमानयत् ॥४२०॥ ददे च दन्तिनां मूल्यं शुल्कं च मुमुचेऽखिलम् । भाण्डशालामुपादाय सोऽथ स्वैरं व्यवाहरत् ॥४२१॥ तत्कन्योद्वाहलग्नं च जगृहे स्वगृहे च सः । कुर्वन्समग्रां सामग्री याति भूपसभेऽन्वहम् ॥४२२॥ रूपश्रीहारिणीं वीक्ष्य राज्ञश्चामरहारिणीम् । तस्याः स्वरूपं चापृच्छत् कञ्चित्प्रोवाच सोऽपि च ॥४२३॥ एषा सुवर्णरखाप्तरेखा वेश्या नृपाश्रिता । धनलक्षार्थदानेन विना वार्तापि नाऽनया ॥४२४॥ इति श्रुत्वा प्रतिश्रुत्य तस्यै लक्षार्द्धमप्यसौ । रथेऽध्यारोप्य तां वेश्यां तां च कन्यां वनेऽव्रजत् ॥४२५॥ निष्कम्पश्चम्पकच्छायामाश्रितः पार्श्वयोर्द्वयोः । ते निवेश्य स निर्माति नर्मकर्मादि यावता ॥४२६॥ एकछेकतयाऽनेककपिभिः कपिपुङ्गवः । कामुकक्रीडया क्रीडंस्तत्रायाति स्म तावता ॥४२७॥ सोऽपि गाणिक्यमाणिक्यमप्राक्षीत् प्रेक्ष्य तं तथा । किं स्वः स्युर्वानरस्यास्य वानर्योऽमूः प्रियायिताः ॥४२८॥ सुवर्णरखाऽप्याचख्यौ पृच्छा तिर्यक्षु दक्ष ! का? । काश्चिज्जनन्योऽप्येतस्य भगिन्योऽपि च काश्चन ॥४२९॥ काश्चिद् दुहितर: काश्चित्सम्भाव्यन्तेऽपरा अपि । विविक्तचित्तः श्रीदत्तोऽभ्यधत्तोदात्तगीस्ततः ॥४३०॥
१. गणिकागणरत्नम् ।