________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
उक्तञ्चरमणीं विहाय न भवति विसंहतिः स्निग्धबन्धुजनमनसाम् । यत्कुञ्चिका सुदृढमपि तालकबन्धं द्विधा कुरुते ॥४१०॥ विवादसादरौ वादिप्रतिवादिवदुर्द्धरौ । निर्यामकेण प्रोक्तौ तौ स्वस्थौ संप्रति तिष्ठतम् ॥४११॥ सुवर्णकूलाख्यं वेलापुरं पोतः प्रयास्यति । दिनद्वयेन विज्ञैर्वां तत्र निर्णेष्यते ह्यदः ॥४१२॥ स्वस्थीभूते शङ्खदत्ते श्रीदत्तोऽथ व्यचिन्तयत् । प्रत्युज्जीवनतस्तैरप्येषाऽस्यैव हि दास्यते ॥४१३॥ जनागतं ततः किञ्चित्सूत्रयामीति मन्त्रयन् । दुराशयः स्वकं मित्रं भृशं विस्त्रम्भमानयत् ॥४१४॥ रात्रौ च यानपात्रस्याट्टालके स निविष्टवान् । मित्रमाचष्ट भोश्चित्रं पश्याऽष्टाऽऽस्यस्तिमिव्रजेत् ॥४१५॥ तत्रैत्य कौतुकाच्छङ्खदत्तोऽप्यैक्षिष्ट यावता । मित्रेणाऽमित्रवत्तावत्पयस्यपात्यताऽम्बुधौ ॥४१६॥ अद्रष्टव्यमुखीं धिग् धिक् सुमुखीमपि दुर्मुखीम् । यदर्थं मित्रद्रोहाद्यं कुर्युस्तद्भविका अपि ॥४१७॥ दुष्टधीरिष्टसिद्ध्या च हृष्टः कृत्रिमपूत्कृतिः । प्रातः प्राह सुहृन्मे हा हंहो धिक् क्वापि नेक्ष्यते ॥४१८॥ इत्यादिकपटाटोपं फटाटोपमिवाफलम् । फणीव निर्विषः कुर्वंस्तद्वेलापुरमाप सः ॥४१९॥
१. तिष्ठथः इति पाठः क्वचित् ।