________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
विभाव्य भूरिलाभं च कटाहद्वीपमप्यमुम् । जग्मतुस्तस्थतुश्च द्वे वर्षे हर्षेण वाणिजौ ॥४००॥ अर्जयामासतुश्चाष्टौ द्रव्यकोटी: क्रमेण तौ । कर्मोपक्रमयोर्योगे किमाश्चर्यं धनार्जने ॥४०१॥ पण्यैः पुण्यैरिवागण्यैः करीन्द्रश्च गिरीन्द्रवत् । भूरीन् प्रपूर्य तौ पोतान् प्रीतौ पश्चात्प्रचेलतुः ॥४०२॥ अट्टालकस्थौ मञ्जूषां तरन्तीमे यती जले । दृष्ट्वाऽन्यदा नाविकैस्तौ ग्राहयामासतुर्दुतम् ॥४०३॥ ग्राह्यं मध्यस्थमर्द्धार्द्धमित्थं मध्यस्थसाक्षिकम् । उदजी घटतां तां च यावत्तावदपश्यताम् ॥४०४॥ निम्बपत्रावृत्तां कन्यां नीलाङ्गी गतचेतनाम् । सर्वैः किमेतदित्युक्तौ शङ्खदत्तोऽभ्यधत्त तान् ॥४०५॥ युग्मम् । दष्टां दुष्टाहिना ह्येतां कोऽपि प्रावीवहज्जले । इत्युक्त्वाऽऽछोट्य तां मन्त्राम्भोभिः स उदजीजिवत् ॥४०६॥ अवदच्च मुदा प्रत्युज्जीवितेयं मयैव भोः । एनां रूपश्रिया मेनां परिणेष्येऽहमेव तत् ॥४०७॥ श्रीदत्तोऽपि तदाऽवादीन्मैवं वादीर्यदादितः । मयार्द्धमूचे शेषार्द्धपदे त्वादत्स्व मे धनम् ॥४०८।। एतां तु स्वीकरिष्येऽहमेवं विवदमानको । तौ प्रीति 'मदनफलाभिलाषादपि वेमतुः ॥४०९॥
१. प्रारब्धोद्योगयोः योगे । २. आगच्छतीम् । ३. उद्घाटयामासतुः । ४. मेनां अप्सरसम् । ५. कामफलाभिषात् पक्षे मदनफलं 'मीढल' इति प्रसिद्धफलं तद्भक्षणात् वमनं भवति ।