________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
सेविष्ये कञ्चन प्रोच्चैर्भूपालं बलवत्तरम् । वालयिष्यामि तेऽम्बां च तबलात्तत्क्षणादपि ॥३९०॥ स्वयं प्रभुत्वं स्वकहस्तकं वा प्रभुं विना नो निजकार्यसिद्धिः । विहाय पोतं तदुपाश्रितं वा वारान्निधिं कः क्षमते तरीतुम् ? ॥३९१॥ इत्युक्त्वा द्रविणं नीत्वा श्रेष्ठी काञ्चिद् दिशं रहः । प्रययौ किं न वा कुर्युः पुमांसः प्रेयसीकृते ॥३९२॥ यतः-दुष्कराण्यपि कुर्वन्ति प्रियाः प्राणप्रियाकृते । किं नाब्धि लङ्घयामासुः पाण्डवा द्रौपदीकृते ॥३९३॥ गृहे स्थितस्य जज्ञेऽथ श्रीदत्तस्य सुताजनुः । अवाप्याऽवसरं प्रायः प्रभवेदैवमप्यहो ॥३९४॥ श्रीदत्तश्च तदा दध्यौ धिङ्मे दुःखपरम्पराम् । पित्रोवियोग: श्रीहानिर्दृषी राजाऽङ्गजाजनुः ॥३९५॥ परविजैकसन्तोषि दैवमद्यापि कर्तृ किम् । इति खिन्नात्मनस्तस्य व्यतीयुर्दिवसा दश ॥३९६॥ श्रीदत्तः शङ्खदत्तेन सुहृदा वादितस्तदा । खिद्यस्व माऽऽत्मश्रीहेतोर्यात्रां यावो महाम्बुधौ ॥३९७॥ तवार्द्धं च ममार्द्धं च श्रीदत्तोऽपि प्रपद्य तत् । स्वभार्यां भालयित्वा च स्वेभ्यस्तां पुत्रिकामपि ॥३९८॥ सज्जीभूयाचटद्यानपात्रे मित्रेण संयुतः । सिंहलद्वीपमाप्तश्च नव वर्षाणि तस्थिवान् ॥३९९॥
१. पुत्रीजन्म ।