________________
प्रथमः
प्रकाशः
४२
a.
अन्यायतोऽन्ये राज्ञैव निवार्यन्ते जनाः सदा । स्वयं कुर्यात्स चेत्तं तन्मात्स्यो' न्यायः प्रवर्त्तताम् ॥ ३८० ॥ श्रेष्ठिप्रणुन्नैर्मन्त्र्याद्यैरित्याद्युक्तः स युक्तिभिः । तान् प्रत्यमुञ्चद् दुर्वाक्यज्वालामालां न तां पुनः ॥ ३८१ ॥ धिगहो दुष्टचित्तत्वं युक्ता वा वह्निवर्षिता । प्रधानभानुगोयोगे सूरकान्तस्य तत्क्षणात् ॥३८२॥ प्राहुर्मन्त्र्यादयः श्रेष्ठिन् ! कोऽप्युपायोऽत्र नेक्ष्यते । करी कर्णे कथं धार्यः कथं वार्यः प्रभुर्भुवः ॥३८३॥ रक्षार्थमेव विहिता चिर्भटान्यत्ति चेद् वृतिः । तदा तेषां कथं कार्या रक्षा दक्षाग्रगैरपि ॥३८४॥ लोकेऽप्युक्तं-माता यदि विषं दद्याद्विक्रीणीत पिता सुतम् । राजा हरति सर्वस्वं का तत्र परिदेवना ॥ ३८५ ॥ श्रेष्ठिमुख्यो विलक्षोऽथ पुत्रं प्राह महानहो । बभूव दुर्दैववशादसम्भाव्यः पराभवः ||३८६ ॥ यतः—सह्यन्ते प्राणिभिर्बाढं पितृमातृपराभवाः । भार्यापरिभवं सोढुं तिर्यञ्चोऽपि न हि क्षमाः ॥३८७॥ येन केनाप्युपायेन युज्यतेऽत्र प्रतिक्रिया । उपायश्चैक एवास्ति द्रव्यव्ययमयः स तु ॥ ३८८ ॥
षड् द्रव्यलक्षाः नः सन्ति तन्मध्याल्लक्षपञ्चकम् । सार्द्धं सार्द्धं गृहीत्वाऽहं यास्यामि क्वापि दूरतः ॥ ३८९ ॥
१. मत्स्यगलागलन्याय इत्यर्थः । २. सूर्यकान्तमणेः प्रधानभानुरश्मियोगेऽग्निवर्षणं युक्तम् तद्वत् सूरकान्तनृपस्य मन्त्रिवाग्योगे वाक्यज्वालामालावर्षणं युक्तम् । ३. सह ।
AAAAAAAA
श्राद्धविधिप्रकरणम्