________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAA
न सा जाई न सा जोणी न तं ठाणं न तं कुलं । न जाया न मुआ जत्थ सव्वे जीवा अणंतसो ॥३६९॥ तस्मान्न रागः कर्त्तव्यो नैव द्वेषश्च कुत्रचित् । व्यवहारोऽनुसतव्यः केवलं समताभृता ॥३७०॥ ममापीदृक्षसम्बन्धो वैराग्यैकनिबन्धनम् । विशेषेण यथा जज्ञे तथा सम्यग् निशम्यताम् ॥३७१॥ श्रीमन्दिरपुरे श्रीणां मन्दिरेऽस्ति नरेश्वरः । दुर्दान्तः सूरकान्तः स्त्रीलम्पट: कपटप्रियः ॥३७२॥ वदान्यस्तस्य मान्यश्च सोमः श्रेष्ठिधुरन्धरः । श्रीरूपजैत्ररूपश्रीः सोमश्रीस्तस्य च प्रिया ॥३७३॥ श्रीदत्तस्तु तयोः पुत्रः श्रीमती दयिताऽस्य च । तेषां चतुर्णां संयोगः पुण्ययोगादजायत ॥३७४॥ यतः यस्य पुत्रा वशे भक्ता भार्या छन्दानुवर्तिनी । विभवेष्वपि संतोषस्तस्य स्वर्ग इहैव हि ॥३७५॥ समं सोमश्रिया सोमश्रेष्ठी क्रीडितुमन्यदा । उद्यानेऽगान्नृदेवोऽपि प्राप तत्रैव दैवतः ॥३७६॥ तां च सोमश्रियं प्रेक्ष्य प्रक्षुभ्यद्रागसागरः । 'दुष्टस्वान्तः क्षणात् क्षोणिकान्तः स्वान्तःपुरेऽक्षिपत् ॥३७७॥ यतः-यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता । एकैकमप्यनर्थाय किं पुनस्तच्चतुष्टयम् ॥३७८॥ राज्यलक्ष्मीलतायां हि दवाग्निर्दुर्नयः स्मृतः । तत्कथं राज्यवृद्ध्यर्थी कामयेताऽन्यकामिनीम् ॥३७९॥
१. दुष्टहृदयः ।