________________
प्रथमः
LAAAAAAA
श्राद्धविधिप्रकरणम्
प्रकाशः
मृगध्वजाह्वयो राजा ऋतुध्वजनृपात्मजः । जातोऽस्ति सारसीजीवः पुनः स्थानात्ततश्च्युतः ॥३५८॥ उपकाश्मीरमध्यस्थविमलाचल आश्रमे । प्राक् क्लृप्तमायया पुत्री जाताऽस्ति गङ्गलेर्मुनेः ॥३५९॥ नाम्ना कमलमालेति तयोर्जातिस्मरः सुतः । त्वं भावीति सुरः श्रुत्वा शुकरूप: सदुक्तिभिः ॥३६०॥ त्वां तस्मिन्नाश्रमे निन्ये कन्यालङ्कृतीर्ददे । पश्चादानीय सैन्येन त्वां संयोज्य दिवं ययौ ॥३६१॥ पञ्चभिः कुलकम् ॥ ततश्च्युत्वा पुनः सोऽयं युवयोस्तनयोऽजनि । स्ववृत्तं च तदा श्रुत्वा जातिं स्मृत्वा विमृष्टवान् ॥३६२॥ पितरौ प्रागभूतां मे पल्यौ तत्कथमेतयोः । तात मातरिति ब्रूयां मौनमेव वरं ततः ॥३६३॥ दोषं किञ्चिद्विनाऽप्येष जोषपोषं व्यधादिति । अस्मद्वाक्यमनुल्लङ्घयं मन्वानस्त्वधुनाऽभ्यधात् ॥३६४॥ निश्चलं बालभावेऽपि प्राग्भवाभ्यस्तमस्य च । सम्यक्त्वाद्यं हि संस्कारः प्रागभ्यासवशः किल ॥३६५॥ शुकराजोऽपि निर्व्याजं व्याजहार तथैव तत् । तं ज्ञानी पुनरप्यूचे शुक ! किं ? चित्रमत्र भोः ॥३६६॥ भवनाटकमीक्षमेवास्ते यदनन्तशः । सर्वजीवैर्मिथः सर्वसम्बन्धा लब्धपूर्विणः ॥३६७॥ यतः-यः पिता स भवेत्पुत्रः यः पुत्रः स भवेत् पिता । या कान्ता सा भवेन्माता या माता साऽपि सा भवेत् ॥३६८॥
१. मौनपुष्टिम् ।