________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
युक्तं शुकादिकक्रीडाऽनर्थहेतुः स्मृता जिनैः । तस्य सम्यग्दृशोऽप्यासीद्यत्तया तादृशी गतिः ॥३४७॥ तादृग् धम्कयोगेऽपि यदभूत्तस्य सा गतिः । तज्जीवगतिवैचित्र्यं स्याद्वादो वा स्फुटीकृतः ॥३४८॥ दुर्गतिद्वयदुष्कर्म प्राणी तीर्थेऽत्र यात्रया । क्षिपेत्परं पुनर्बन्धे तस्य भोगोऽपि सम्भवेत् ॥३४९॥ न चैवं तीर्थमाहात्म्यहानिर्यद् वैद्यसंश्रितः । भुक्त्वा कुपथ्यं चेन्मन्दी स्यात्तत्कि भिषजोऽयशः ॥३५०॥ प्राग्दुर्दैवोत्थदुर्थ्यानाद्यद्यप्येषोऽभवत्तथा । तथाऽऽप्याप्ता द्रुतं सम्यक् सम्यक्त्वैकफलं महत् ॥३५१॥ प्रेत्यकृत्ये कृते राज्ञः प्रव्रज्य प्रथमद्यवि' । क्रमेण हंसीसारस्यौ देव्यौ दिव्ये बभूवतुः ॥३५२॥ ताभ्यामवधिनाऽप्रैक्षि प्रियजीवोऽस्ति कुत्र नौ । अदर्शि च शुकः खेदादागत्य प्रत्यबोधि च ॥३५३॥ तत्रैव तीर्थेऽनशनं ग्राहितश्च मृतस्ततः । सोऽभूद्देवस्तयोर्भर्त्ता उक्तं तस्येदृशं द्रुतम् ॥३५४॥ कालक्रमेण ते देव्यौ च्युते पूर्वं ततोऽन्यदा । देवेन केवली पृष्टोऽस्मि किं सुलभबोधिकः ॥३५५।। प्रभो ! दुर्लभबोधिर्वा ? भवान् सुलभबोधिकः । इत्युक्ते ज्ञानिना तेनाऽप्यूचे कथमिदं पुनः ॥३५६॥ जजल्प केवली यत्ते च्युते देव्यावुभे पुरा । हंसीजीवस्तयोर्मध्यात्पुरे क्षितिप्रतिष्ठिते ॥३५७॥
१. प्राप्स्यति । २. प्रथमस्वर्गलोके ।