________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
वास्तुरीत्या ततस्तत्र मन्त्री पुरमतिष्ठिपत् । स्वामिनोक्तं च युक्तं च न कः कुर्याद्विविक्तधीः ॥३३६॥ पुरे मुक्तकरे तत्र लोभतः स्वार्थतीर्थयोः । श्रीसङ्घसत्का अन्ये च भूयांसोऽप्यवसन् जनाः ॥३३७॥ नाम्ना श्रीविमलपुरं पुरं तच्च प्रतिष्ठितम् । तस्यैव नाम्नः प्रामाण्यं यस्य सार्थकता भवेत् ॥३३८॥ भुञ्जानः प्राज्यरायद्धि श्रीजिनध्यानवासनः । राजा तत्र सुखं तस्थौ द्वारवत्यामिवाऽच्युतः ॥३३९॥ एकः शुकश्च तच्चैत्ये सुस्वरः कलहंसवत् । मनोविनोदकृत् क्रीडाभूमिभूमिभुजोऽभवत् ॥३४०॥ आसेदुषोऽपि प्रासादं तत्क्रीडारसतोऽस्य च । अर्हद्ध्यानं धूम्रमुच्चैधूमाच्चित्रमिवाभवत् ॥३४१॥ भूकान्तः प्रान्तसमये पुरः श्रीऋषभप्रभोः । प्रपेदेऽनशनं सोऽथ रीतिरेषा हि धर्मिणाम् ॥३४२॥ धीरस्वान्ते उभे कान्ते तस्य निर्यापनापरे । नमस्कृतीर्ददाते स्म समयज्ञा हि सद्धियः ॥३४३॥ तदा प्रासादशृङ्गाग्रेऽशब्दायत शुकः सकः । दैवादवनिपस्यापि ध्यानं तस्मिन्नुपेयिवान् ॥३४४॥ ध्यानाकृष्ट इवात्मापि शुकयोनौ प्रयातवान् । निजच्छायेव दुर्लङ्घया काऽप्यहो भवितव्यता ॥३४५॥ अन्ते हि या मतिः सैव गतिरित्युच्यते बुधैः । मुधैवेयं श्रुतिर्माभूदितीव स शुकोऽभवत् ॥३४६॥
१. श्रीसङ्घसम्बधिनः सङ्घस्था जना इत्यर्थः । २. कृष्णः ।