________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
महीशसाहसाकृष्टस्तुष्टोऽहं दिव्यशक्तितः । विमलाद्रिमहातीर्थ प्रत्यासन्नं समानयम् ॥३२३॥ प्रातश्चलद्भिस्तद्यामसमये द्रक्ष्यते ध्रुवम् । तत्र नत्वा जिनं सर्वैः पूरणीया अभिग्रहाः ॥३२४।। मन्त्रिणा स्वप्न एवोक्तं ज्ञापयेत्थं परानपि । यथा सर्वेऽपि मन्यन्तेऽन्येभ्यः स्वप्नान् ददेऽथ सः ॥३२५॥ तस्यामटव्यां नव्यं तत्तीर्थं तद्रूपमाशु सः । गिरेरुपरि चक्रे च किं वा देवैर्न सिध्यति ॥३२६॥ देवैविकुर्वितं पक्षमेवोत्कर्षेण तिष्ठति । कृतं तु चिरमप्यर्हन्मूर्त्तिवदैवतोपरि ॥३२७॥ जाते प्रभाते सूरीन्द्रनरेन्द्रसचिवादयः । अन्येऽपि सङ्घलोकाश्च स्वप्नान् प्राहुः परस्परम् ॥३२८॥ संवादसादराः सर्वे प्रस्थिताः पुरतस्ततः । तथैव तीर्थं तत्तत्र दृष्ट्वा मुमुदिरेतराम् ॥३२९।। नत्वाऽर्चित्वा जिनं सर्वेऽभिग्रहान् स्वानपूपुरन् । देहं च हर्षरोमाञ्चरात्मानं सुकृतामृतैः ॥३३०॥ तत्र स्नात्रध्वजारोपमालोद्धट्टनमुख्यकैः । कृत्यैः समग्रैः सर्वेऽपि धन्यंमन्यास्ततोऽचलन् ॥३३१॥ भगवद्गुणचूर्णैककार्मणात्किल पार्थिवः । चलितोऽपि पुनः पश्चाद् ववलेऽर्हन्नमस्यया ॥३३२॥ एहिरेयाहिरा एवं सप्तवारान् विनिर्ममे । स्वात्मनो रक्षणायेव सप्तदुर्गतिपाततः ॥३३३॥ किमेतदिति पृष्टश्च नृसिंहसिंहमन्त्रिणा । प्राह मोक्तुमशक्तोऽस्मि तीर्थमम्बामिवार्भकः ॥३३४॥ तदत्रैव पुरं नव्यं स्थाप्यतां स्थितये मम । जहाति कः सुधीलब्ध्वा स्थानमिष्टं निधानवत् ॥३३५॥